________________
१७५
हेत्वाभासाः निश्चिता, तथा निश्चितसाध्याभाववान् धर्मी विपक्ष इति घटादौ धर्मिणि नित्यत्वात्मकसाध्याभावरूपानित्यत्वनिर्णयाद् विपक्षे प्रमेयत्वस्य वृत्तिनिर्णीतेति भवति प्रमेयत्वहेतुनिर्णीतविपक्षवृत्तिकानैकान्तिक इत्यर्थः ।
सन्दिग्धविपक्षवृत्तिकानैकान्तिकमुदाहरति
द्वितीयो यथा-अभिमतः-सर्वज्ञो न भवति-वक्तृत्वादिति । अत्र हि वक्तृत्वं विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम्-सर्वज्ञः किं वक्ताऽऽहोस्विन्नेति सन्देहात् । एवं स श्यामो-मित्रापुत्रत्वादित्याद्यप्युदाहार्यम् ।
जैनेन सर्वज्ञत्वेन रूपेणाऽभिमते पुरुषधौरेये महावीरे वक्तृत्वेन हेतुना सर्वज्ञत्वाभावलक्षणसाध्यस्य मीमांसकेन साधने वक्तृत्वहेतुः सन्दिग्धविपक्षवृत्तिकानैकान्तिक इत्यर्थः । तत्र लक्षणं सङ्गमयति-अत्रेति । अभिमत:-सर्वज्ञो न भवति-वक्तृत्वादित्यनुमाने इत्यर्थः । यश्च नैयायिकस्य सोपाधिकत्वेन व्याप्यत्वासिद्धतयाऽभिमतो हेतुः, सोऽपि सन्दिग्धविपक्षवृत्तिकानैकान्तिक एवाऽन्तर्भवतीत्याशयेनाऽऽह-एवमिति । __धर्मभूषणेन अप्रयोजकापरनामाऽकिञ्चित्करो हेतुः सिद्धसाधन-बाधितविषयाभ्यां द्विप्रकारो हेत्वाभासोऽधिक उररीकृतः । तन्मतं प्रतिक्षिपति
अकिञ्चित्कराख्यः चतुर्थोऽपि हेत्वाभासभेदो धर्मभूषणेनोदाहृतो न श्रद्धेयःसिद्धसाधनो बाधितविषयश्चेति द्विविधस्याऽप्यप्रयोजकाह्वस्य तस्य प्रतीत-निराकृताख्यपक्षाभासभेदानतिरिक्तत्वात् । न च यत्र पक्षदोषः, तत्राऽवश्यं हेतुदोषोऽपि वाच्यःदृष्टान्तादिदोषस्याऽप्यवश्यंवाच्यत्वापत्तेः ।
तस्य-अकिञ्चित्करस्य । प्रतीतेति । सिद्धसाधनरूपाकिञ्चित्करस्य प्रतीताख्यपक्षाभासाभिन्नत्वाद्, बाधितविषयरूपाकिञ्चित्करस्य च निराकृताख्यपक्षाभासाभिन्नत्वाद् हेतुदोष एवाऽयं न भवति, कुतः तमादाय हेत्वाभासस्य चतुर्विधत्वमित्यर्थः ।।
पक्षदोषस्याऽप्यस्य 'यत्र पक्षदोषः तत्राऽवश्यं हेतुदोष' इति नियममुररीकृत्य हेत्वाभासत्वाभ्युपगमे साध्यविकल-हेतुविकल-साध्यसाधनोभयविकल-दृष्टान्तलक्षणसाधर्म्यदृष्टान्तदोषाणां साध्याभावविकल-साधनाभावविकल-साध्याभावसाधनाभावोभयविकलदृष्टान्तलक्षणवैधर्म्यदृष्टान्तदोषाणां चाऽपि सद्भावेन 'यत्र दृष्टान्तदोषः, तत्राऽवश्यं हेतुदोष' इति नियममुररीकृत्य तादृशदोषाणामपि हेत्वाभासतयाऽभिधानं कर्त्तव्यं स्यादित्याह-न चेति । अस्य
__'धर्मभूषणेन'-"अप्रयोजको हेतुरकिञ्चित्करः । स द्विविधः सिद्धसाधनो बाधितविषयश्च ।" न्यायदी० पृ० ३५ ।