________________
१७४
सटीकजैनतर्कभाषायां तत्र विरुद्धलक्षणं सङ्गमयति-कृतकत्वमिति । अपरिणामित्वं परिणामित्वाभावः, तस्य स्वप्रतियोगिना परिणामित्वेन समं परस्पराभावरूपत्वलक्षणप्रतिषेध्यप्रतिषेधकभावो विरोधः, १अभावाभावस्य प्रतियोगिरूपत्वेनाऽपरिणामित्वाभावस्य परिणामित्वस्य व्याप्तत्वात् कृतकत्वं विरुद्धमित्यर्थः ।
अनैकान्तिकहेत्वाभासं निरूपयतियस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ।
अनैकान्तिक इति लक्ष्यम्, यस्यादि लक्षणम् । अनिर्णीतसाध्यान्यथानुपपत्तिको हेतुरनैकान्तिक इत्यर्थः । अस्यैव सव्यभिचार इति नामान्तरम् । यस्मिन् हेतौ साध्याभाववद्वृत्तित्वं सन्दिह्यते, तदानीं तत्र साध्यं विनाऽनुपपत्तिनिर्णयो न विद्यते-साध्यान्यथानुपपत्तेर्हेतौ निर्णये साध्याभाववद्वृत्तित्वाभावरूपाव्यभिचारनिर्णयरूपप्रतिबन्धकसत्त्वात् साध्याभावववृत्तित्वसन्देहासम्भवात् । यत्र च हेतौ साध्याभाववद्वृत्तित्वस्य निर्णयो यदा विद्यते, तदानीं तद्रूपप्रतिबन्धकसत्त्वात् साध्याभाववदवृत्तित्वात्मकाव्यभिचारलक्षणान्यथानुपपत्तेनिर्णयासम्भवादुभयत्रेदं लक्षणं समनुगतमिति ।
स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च ।।
अनैकान्तिकहेत्वाभासो निर्णीतविपक्षवृत्तिक-सन्दिग्धविपक्षवृत्तिकभेदाभ्यां द्विप्रकार इत्यर्थः । यस्य हेतोः विपक्षे-साध्याभाववति धर्मिणि वृत्तिनिर्णीता स निर्णीतविपक्षवृत्तिकः । यस्य तु साध्याभाववति विपक्षे वृत्तिः सन्दिग्धा स सन्दिग्धविपक्षवृत्तिकः ।
तत्र प्रथममुदाहरति
आद्यो यथा-नित्यः शब्दः-प्रमेयत्वात् । अत्र हि प्रमेयत्वस्य वृत्तिनित्ये व्योमादौ सपक्षे इव विपक्षेऽनित्ये घटादावपि निश्चिता ।
शब्दे धर्मिणि प्रमेयत्वेन हेतुना नित्यत्वसाध्यस्य साधने प्रमेयत्वहेतुनिर्णीतविपक्षवृत्तिक इत्यर्थः । लक्षणं सङ्गमयति-अत्रेति । नित्यः शब्दः-प्रमेयत्वादिति स्थले इत्यर्थः । निश्चितसाध्यवान् धर्मी सपक्ष इति व्योम्नि नित्यत्वलक्षणसाध्यस्य निश्चयात्, सपक्षे प्रमेयस्य वृत्तिर्यथा
१. हेतोः परिणामिव्याप्यत्वेऽपरिणामित्वाभावव्याप्यत्वं कथं ? तद् दर्शयति-अभावाभावस्येति । २. यदि हेतौ साध्याभाववद्वृत्तित्वरूपव्यभिचारस्य संशयो निर्णयो वा भवेत् तर्हि तत्र साध्यान्यथानुपपत्तिनिर्णयो
नाऽस्त्येव, यतः 'अयं स्थाणुः' इति निश्चये 'अयं पुरुषो न वे'ति संशयो यथा न भवति, तथैवाऽव्यभिचारनिर्णये सति 'अयं व्यभिचारी न वे'ति संशय एव न स्यात्, व्यभिचारनिर्णयकाले तु साध्यान्यथानुपपत्तिनिर्णयस्यैवाऽसम्भवः । 'सन्दिह्यते' इत्यस्य 'निर्णयो नाऽस्ती'त्येवाऽर्थः करणीयः ।