________________
हेत्वाभासाः
१७३ तत्साधकन्यायः पूर्वमनुभवपथमासीदेव, परमिदानीं सभाक्षोभादिना न स्मृतिपथमुपैति, सन्नपि संस्कारो नोद्बोधमुपयातीत्यतः तत्समर्थनन्यायविस्मरणादिलक्षणकारणेनेत्यर्थः । प्रतिवादिनंस्वपक्षविरुद्धपक्षस्थापकतया स्वप्रतिमल्लम् । प्राश्निकान्-वादिप्रतिवादिसिद्धान्तरहस्यज्ञान् मध्यस्थान् वा । प्रतिबोधयितुम् इदं मद्धेतुसिद्धिसमर्थं प्रमाणमिति ज्ञापयितुम् । न शक्नोतिन शक्तिमाबिभर्ति । एवं सति स्वहेतोरसिद्धतामेव स्वीकरोति, कथमेवं स्यात् ? स्वहेतोः सद्धेतुतां जानन् अयमप्रतिभामात्रेण प्रतिपन्नस्य तस्याऽसिद्धतां कथं नाम स्वीकरोत्वितिअसिद्धतामपि नाऽनुमन्यते । एवञ्च वादिसिद्धत्वाद् न वाद्यसिद्धोऽयम्, प्रतिवादी तु स्वयं स्वपक्षप्रतिपक्षसाधकं तं न स्वीकरोत्येव, वादिनाऽपि तत्साधकप्रमाणानुपन्यासाद् न तथा प्रतिबोधित इति वादी स्वोपन्यस्तहेतोः तदानीमन्यतरासिद्धत्वेनैव, निगृह्यते-निग्रहस्थानमापन्नत्वाद् निगृहीतो भवति ।
प्रकारान्तरेणाऽपि अन्यतरासिद्धत्वमुपपादयति
तथा, स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम् । यथा-साङ्ख्यस्य जैनं प्रति अचेतनाः सुखादय-उत्पत्तिमत्त्वाद् घटवदिति ।
स्वयमनभ्युपगतोऽपि-स्वाभ्युपगमाविषयोऽपि । एतावता वाद्यसिद्धता प्रकटीकृता । तहि कथमित्थं जानन् अप्यसिद्धेनैव हेतुना परं प्रति साध्यं साधयितुं प्रवृत्त इत्याकाङ्क्षायामाहपरस्येति । भवतु ममाऽसिद्धोऽयम्, परस्तु यदि स्वसिद्धत्वतोऽस्मत्सिद्धत्वमेवाऽज्ञानाद् धारयेत्, ततश्चाऽसिद्धिं नोद्भावयेत् तर्हि सिद्धं नः समीहितमिति परस्य सिद्धोऽयमित्येतावन्मात्रेण वादिनोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणं-निग्रहस्थानम्, भवतीति शेषः ।
एतदुदाहरति-यथेति । सुखादयोऽचेतना-उत्पत्तिमत्त्वादित्यत्र उत्पत्तिमत्त्वलक्षणो हेतुः प्रतिवादिनो जैनस्य सिद्ध एव-सुखादीनामुत्पत्तिमत्त्वस्य जैनेनाऽभ्युपगमात्, किन्तु सत्कार्यमभ्युपगच्छतो वादिनः कुत्राप्युत्पत्तिमत्त्वं न सिद्धम्, दृष्टान्तेऽपि घटे तदसिद्धमेवेति भवति तद् अन्यतरासिद्धमिति । -...-...
विरुद्धं लक्षयति
साध्यविपरीतव्याप्तो विरुद्धः । यथा-अपरिणामी शब्दः-कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति ।
अत्र विरुद्ध इति लक्ष्यम्, साध्यविपरीतव्याप्त इति लक्षणम् । साध्याभावव्याप्यो हेतुविरुद्ध इत्यर्थः । उदाहरति-यथेति । शब्दो धर्मी, अपरिणामित्वं साध्यम्, कृतकत्वं हेतुः ।