________________
१७२
सटीकजैनतर्कभाषायां इत्याशङ्कते
अथ यावद् न परं प्रति प्रमाणेन प्रसाध्यते, तावत् तं प्रत्यसिद्ध इति चेत्; परं-प्रतिवादिनम्, तं प्रति प्रतिवादिनं प्रति । समाधत्ते
गौणं तहसिद्धत्वम्, न हि रत्नादिपदार्थः तत्त्वतोऽप्रतीयमानः तावन्तमपि कालं मुख्यतया तदाभासः । किञ्च, अन्यतरासिद्धो यदा हेत्वाभासः तदा वादी निगृहीतः स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् । नाऽपि हेतुसमर्थनं पश्चाद् युक्तम्निग्रहान्तत्वाद् वादस्येति ।
तर्हि गौणमसिद्धत्वमित्यन्वयः । गौणत्वमेव निदर्शनोपन्यासेन द्रढयति-न हीति । अस्य तदाभास इत्यनेनाऽन्वयः । यथा तत्त्वतो यदा रत्नादिर्न प्रतीयते-तत्परीक्षकाभावात्, तदानीमपि परमार्थतो रत्नाभासः स न भवति, किन्तु तदानीं परीक्षाऽविदग्धैः वस्तुतो रत्नरूपोऽपि सन् रत्नाभास इति व्यवहियते, एवं गौणमेव तस्य रत्नाभासत्वम्; तथा वस्तुतः प्रमाणविषयस्य प्रमाणोपन्यासात् पूर्व प्रतिवादिनः प्रमाणविषयत्वेनाऽप्रतिभासमानस्याऽपि हेतोः, असिद्धोऽयं हेतुरित्येवं व्यवहारेण गौणमेवाऽसिद्धत्वम्, तद्बलाद् न मुख्यो हेत्वाभासोऽयं भवितुमर्हतीत्यर्थः ।
किञ्च प्रतिज्ञाविरोध-प्रतिज्ञासंन्यास-प्रतिज्ञान्तरादिनिग्रहस्थानानां मध्ये हेत्वाभासस्याऽपि परिगणनादन्यतरासिद्धरूपहेत्वाभासलक्षणनिग्रहस्थानावाप्तितो वादी निगृहीतः [सन्] न तत्परिहारार्थं तत्र प्रमाणोपन्यासं कर्तुमर्हति-निग्रहान्तत्वाद् वादस्य, अन्यथा परापरविचारधाराप्रवृत्तितोऽनवस्थानात् कथान्तं न कोऽपि गच्छेदिति जयपराजयव्यवस्थैवोच्छिद्यतेत्याहकिञ्चेति । न चेत्यस्य युक्तमित्यनेनाऽन्वयः । नाऽपि इत्यस्य युक्तमित्यनेनाऽन्वयः । अन्यत् स्पष्टम् ।
____ अत्रोच्यते यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असिद्धतामपि नाऽनुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । ___अत्रोच्यते इति । उक्तान्यतरासिद्धहेत्वाभासानुपपत्तिशङ्कायां प्रतिविधानमभिधीयते इत्यर्थः । सम्यग्धेतुत्वं-स्वोपन्यस्तहेतोः सद्धेतुत्वं, प्रतिपद्यमानोऽपि-जानन्नपि । एतावता न तस्य वाद्यसिद्धत्वमिति आविष्कृतम् । तर्हि येन प्रमाणेन स्वयं तं स्वीकरोति, तत्प्रमाणोपदर्शनेन परमपि तं स्वीकारयिष्यतीति प्रतिवादिसिद्धोऽप्ययमत आह-तत्समर्थनेति ।