________________
हेत्वाभासाः
१७१ बौद्धः तरुषु चैतन्याभावसाधनाय विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वं हेतुं प्रयुञ्जीत, सोऽस्य हेतुः तरूणां विज्ञानेन्द्रियायुर्निरोधलक्षणमरणमभ्युपगच्छतः प्रतिवादिनो जैनस्य न सिद्ध इति प्रतिवाद्यसिद्धोऽयमचेतनाः तरवः-विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादित्यत्रोपात्तो हेतुरित्यर्थः । अचेतनाः-सुखादय-उत्पत्तिमत्त्वादित्येवं जैनं प्रति साङ्ख्यो यद्यनुमानप्रयोगं रचयेत्, तदा साङ्ख्यस्यैकान्तसत्कार्यवादिनः उत्पत्तिमत्त्वं क्वचिदपि न सिद्धमिति सुखादिषु धर्मिष्वपि तत् तस्याऽसिद्धमेवेति वाद्यसिद्धत्वादन्यतरासिद्धोऽयं हेतुरित्यर्थः ।
अन्यतरासिद्धस्य हेत्वाभासत्वमसहमानः कश्चित् प्रश्नयति
नन्वन्यतरासिद्धो हेत्वाभास एव नाऽस्ति । तथाहि-परेणाऽसिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावादुभयोरप्यसिद्धः । अथाऽऽचक्षीत तदा प्रमाणस्याऽपक्षपातित्वादुभयोरपि सिद्धः ।
अन्यतरासिद्धस्य हेत्वाभासत्वाभावं भावयति-तथाहीति । परेण प्रतिवादिना, असिद्ध इत्युद्भाविते त्वया प्रयुक्तोऽयं हेतुर्न प्रमाणेन प्रकृतधर्मिणि सिद्ध-इत्येवमभिहिते सति, यदि वादी न तत्साधकं प्रमाणमाचक्षीत अनुमानप्रयोक्ता प्रकृतर्मिणि स्वप्रयुक्तहेतुसाधकं किमपि प्रमाणं न ब्रूयात्, तदा प्रमाणाभावादुभयोरप्यसिद्धः प्रतिवादी तत्र प्रमाणमपश्यन् एवाऽसिद्ध इत्यभिहितवानिति प्रतिवादिनः प्रमाणाभावादेवाऽसिद्धः, कथायां प्रयुक्तमेव प्रमाणं प्रमाणतां भजते, न त्वप्रयुक्तमिति सदपि प्रमाणमप्रयुक्तत्वाद् न तत्र प्रमाणमिति वादिनोऽपि प्रमाणाभाव इति प्रमाणाभावाद् वादिप्रतिवादिनोरुभयोरप्यसिद्धो, न त्वेकस्यैवेति ।
अथाऽऽचक्षीत-प्रतिवादिना 'तवाऽयमसिद्धो हेतु'रित्युद्भाविते यदि वादी स्वोपन्यस्तहेतौ प्रमाणं ब्रूयात् । एवं सति-यत् प्रमाणं तत् सर्वस्याऽपि प्रमाणं भवत्येव, न त्वेकस्य तत् प्रमाणमन्यस्य तु न प्रमाणम्, न हि प्रमाणस्य प्रामाण्याप्रामाण्ये आपेक्षिके सम्भवतः-इति यद् वादिनोक्तं प्रमाणम्, तत् प्रतिवादिनोऽपि प्रमाणमेवेति तत्सिद्धमुभयसिद्धमेवेति नैवमप्यत्राऽन्यतरासिद्धत्वस्याऽवकाश इत्याह-तदेति ।
प्रमाणोपदर्शनानन्तरं भवतूभयसिद्धम्, ततः प्राक् प्रमाणेनाऽप्रसाधितं तद् न प्रतिवादिनोऽभ्युपगमविषय इत्येतावता तं प्रत्यसिद्धत्वाद् अन्यतरासिद्धः तदात्मको हेतुरुच्यते
'नन्वन्यतरासिद्धः'-प्रमेयकमलमार्तण्डे [पृ० १९१] स्याद्वादरत्नाकरे [पृ० १०१८] च अन्यतरासिद्धाख्यहेत्वाभासस्य नास्तित्वाशङ्कायाः-"नन्वेवमपि अस्य असिद्धत्वं गौणमेव स्यादिति चेद्, एवमेतत्, प्रमाणतो हि सिद्धेरभावात् असिद्धोऽसौ न तु स्वरूपतः" इत्यादिना यत् समाधानं कृतं तदपि अत्र पूर्वपक्षतया उपन्यस्य समाधानान्तरं दीयते ग्रन्थकृता ।