________________
सटीकजैनतर्कभाषायां
सम्यग्दर्शनम्, तदनुपलब्धिः - तदभावो भवति प्रतिषेध्याविरुद्धसहचरानुपलब्ध्यात्मा सप्तमः । इति प्रतिषेधसाधकाविरुद्धानुपलब्धिसंज्ञकप्रतिषेधहेतुनिरूपणे वृत्तं हेतुनिरूपणम् । हेतुनिरूपणमुपसंहरन् तद्भिन्नत्वाद् हेत्वाभासनिरूपणमपि विधेयमित्याहसोऽयमनेकविधोऽन्यथानुपपत्त्येकलक्षणो हेतुरुक्तोऽतोऽन्यो हेत्वाभासः ।
अत:
:- हेतुत:, अन्यः - भिन्नः । हेतुवदाभासते इति हेत्वाभासो, दुष्टहेतुरिति यावत् । तल्लक्षणं तु अनुमितितत्कारणान्यतरप्रतिबन्धकज्ञानविषयत्वम् । अत्रोक्तज्ञानविषयत्वं हेतुदोषस्य लक्षणमिति नैयायिका वदन्ति । स्वमते सद्धेतुभिन्नहेतुत्वमेव दुष्टहेतोर्लक्षणम् । परोक्तलक्षणस्य दुष्टपक्ष- दुष्टसाध्येऽपि सत्त्वेनाऽतिव्याप्तिग्रस्तत्वाद् अतोऽन्यो हेत्वाभास इत्युक्तम् ।
हेत्वाभासं विभजते
१७०
स त्रेधा - असिद्धविरुद्धानैकान्तिकभेदात् । तत्राऽप्रतीयमानस्वरूपो हेतुरसिद्धः । स्वरूपाप्रतीतिश्चाऽज्ञानात् सन्देहाद् विपर्ययाद् वा । स द्विविधः - उभयासिद्धोऽन्यतरासिद्धश्च । आद्यो यथा - शब्दः - परिणामी - चाक्षुषत्वादिति । द्वितीयो यथा - अचेतनाः तरव::-विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वाद्, अचेतनाः सुखादय - उत्पत्तिमत्त्वाद् ।
असिद्धविरुद्धानैकान्तिकभेदाद् हेत्वाभासः त्रिप्रकार इत्यर्थः । प्रथमोद्दिष्टमसिद्धहेत्वाभासं निरूपयति तत्रेति । असिद्धविरुद्धानैकान्तिक हेत्वाभासेषु मध्ये इत्यर्थः । अप्रतीयमानस्वरूपो हेतुरिति लक्षणम्, असिद्ध इति लक्ष्यम् । असिद्धत्वेनाऽभिमतस्य हेतोः स्वरूपाप्रतीतौ कारणान्युपदर्शयति-स्वरूपाप्रतीतिश्चेति । वाकारः कस्यचित् प्रमातुः हेतुस्वरूपाप्रतीतिः तदज्ञानाद् भवति, कस्यचित्तु हेतुस्वरूपे सन्देहात्, कस्यचित् पुनः विपर्ययादिति पुरुषभेदेन कारणभेदज्ञापनार्थम् ।
स इति । उभयासिद्धान्यतरासिद्धभेदेनाऽसिद्धलक्षणो हेत्वाभासो द्विप्रकार इत्यर्थः । यो हेतुः वादिप्रतिवादिभ्यामुभाभ्यामपि पक्षे धर्मिणि नैव सिद्धः, अपि तु तदभाव एव पक्षे वादिप्रतिवादिभ्यामनुमतः, स उभयासिद्धोऽसिद्धस्य प्रथमो भेदः । तमुदाहरति- आद्यो यथेति । यदि शब्द:-परिणामी - चाक्षुषत्वादित्यनुमानं जैनो नैयायिकं प्रति विदधीत, तदा वादिनो जैनस्य प्रतिवादिनो नैयायिकस्य च शब्दे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वलक्षणं चाक्षुषत्वं न सिद्धम्, द्वाभ्यामपि ताभ्यां शब्दे श्रवणेन्द्रियजन्यप्रत्यक्षविषयत्वलक्षणश्रावणत्वाभ्युपगत्या चाक्षुषत्वाभावस्यैवोपेतत्वादित्यर्थः ।
वादिनः प्रतिवादिनो वा यो हेतुः पक्षे न सिद्धः, अपि तु तदभाव एव वादिप्रतिवाद्यन्यतराभीष्टः, स हेतुरन्यतरासिद्धः । तमुदाहरति-द्वितीयो यथेति । यदि जैनं प्रति