________________
सप्तभङ्गी दिकमवक्तव्यत्वोपोद्बलकं बोध्यम् ।
पञ्चमभङ्गं निरूपयति
स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः ।
१८७
चतुर्थभङ्गप्रतिपाद्यस्याऽवक्तव्यत्वस्य प्रथमभङ्गप्रतिपाद्यास्तित्वेन सहैकधर्मिणि बोधनेच्छया, स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः पृथक् कल्पनया, स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः परद्रव्यादिना नास्तित्वलक्षणनिषेधस्य च प्राधान्यतो युगपत्कल्पनया चाऽयं भङ्गः प्रवर्त्तते । अस्य कथञ्चिदस्तित्वादिप्रकारक- कथञ्चिदवक्तव्यत्वप्रकारक - घटाद्येकधर्मिविशेष्यकबोधजनकवाक्यत्वं लक्षणम् । सप्तमभङ्गेऽतिव्याप्तिवारणाय कथञ्चिदस्तित्वादिप्रकारकेत्यस्य पृथक्कथञ्चिदस्तित्वादिविधिमात्रप्रकारकेत्येवंपरता विवक्षणीया । सप्तमभङ्गजन्यबोधे च पृथक्कथञ्चिन्नास्तित्वादिनिषेधः प्रकारो भवतीति तद्वारणम् । एतावतैव सप्तभङ्ग्यात्मकमहावाक्येऽपि नाऽतिव्याप्तिः - तज्जन्यमहावाक्यार्थबोधे पृथक्कथञ्चिन्नास्तित्वादिनिषेधस्याऽपि प्रकारत्वात् ।
सूक्ष्मविचारणायां च कथञ्चिदस्तित्वसंवलितकथञ्चिदवक्तव्यत्वोक्त्या पञ्चमं धर्मान्तरमेव बोध्यते । तच्चेत्थमेवोल्लिखितुं शक्यते, नाऽन्यथेति तत्प्रतिपादकः ‘स्यादस्त्येव स्यादवक्तव्यमेवे'ति भङ्गः । तथा च तथाविधविलक्षणधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणं पर्यवस्यतीति ।
षष्ठः ।
षष्ठं भङ्गं निरूपयति
स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च
चतुर्थद्वितीयधर्मसम्मेलनोपस्थापितषष्ठधर्मप्रतिपादकतयाऽयं भङ्गः प्रवर्त्तते । अस्य पृथक्कथञ्चिन्नास्तित्वादिनिषेधमात्रप्रकारक- कथञ्चिदवक्तव्यत्वप्रकारक - घटादिधर्मिविशेष्यकबोधजनकवाक्यत्वं तथाविधविलक्षणधर्ममात्रप्रकारक - घटादिविशेष्यकबोधजनकवाक्यत्वं वा लक्षणम् । अन्यत् सर्वं पञ्चमभङ्गवत्, केवलं विधिकल्पनास्थाने निषेधकल्पना पृथग्भावे प्रविशतीति ।
सप्तमभङ्गं निरूपयति
स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ।