________________
१८८
सटीकजैनतर्कभाषायां तृतीयचतुर्थभङ्गसंयोजनया प्रथमद्वितीयचतुर्थभङ्गसंयोजनया वाऽयं भङ्गः । सप्तमो धर्मोऽतिरिक्तोऽत्राऽपि विषयः, तादृशधर्मप्रकारकघटादिविशेष्यकबोधजनकवाक्यमस्य निष्कृष्टलक्षणम् । अन्यत् सर्वं पूर्वदर्शितदिशाऽवसेयम् । .
ननु स्याद्वादकेवलज्ञानयोः सर्वार्थावभासकत्वं स्याद्वादिनामनुमतम्, तन्न युज्यते । स्याद्वादे सर्वत्र सप्तभङ्गीवाक्यमेव महावाक्यतया सम्पूर्णार्थविबोधकमनुमतम् । परमुक्तदिशा प्रतिपर्यायं सप्तविधधर्मपर्याप्तप्रकारकघटादिविशेष्यकबोधजनकत्वं-प्रत्येकं तत्तद्धर्मनिष्ठप्रकारतासप्तकनिरूपितघटादिनिष्ठविशेष्यतानिरूपकबोधजनकत्वमेवाऽस्याः प्रसिद्धिपद्धतिमञ्चति, न त्वेतज्जन्यबोधेऽनन्तधर्मावभासः, तदन्तरेणाऽनन्तधर्मात्मकवस्त्ववभासनमपि नैव, तथा च प्रमाणवाक्यत्वमप्यस्य न युज्यते । श्रुतप्रमाणेन यद्यनन्तधर्मात्मकं वस्तु परिच्छिद्येत, भवेत् तदा तदेकदेशावबोधकनयात्मकज्ञानजनकत्वेन नयवाक्यत्वमपि-प्रमाणापेक्षया नयत्वव्यवस्थितेः । यदा चाऽनन्तधर्मात्मकवस्तुपरिच्छेदः श्रुतप्रमाणाद् न भवति, तदा परिमितानामेकव्यादिधर्माणामेकदेशत्वमपि न व्यवस्थापयितुं शक्यमिति नयवाक्यत्वमपि कथमस्य युक्तियुक्तं स्यादिति चेत् ?
एकधर्मबोधनद्वारा तदात्मना सकलधर्मावबोधकत्वलक्षणसकलादेशस्वभावबलात् सप्तभङ्ग्या अनन्तधर्मात्मकवस्त्ववभासिप्रमाणात्मकज्ञानजनकत्वेन प्रमाणवाक्यत्वम्, तज्जन्यबोधविषयानन्तधर्मात्मकवस्त्वेकदेश-एकद्व्यादिकतिपयधर्मतदात्मकधर्म्यवगाहिनो ज्ञानस्य नयात्मकस्य विषयीभूतधर्मक्रमप्रतिपादकत्वलक्षणविकलादेशस्वभावबलादेकद्व्यादिधर्मतदात्मकधर्म्यवभासिनयात्मकज्ञानजनकत्वेन नयवाक्यत्वं चोपपद्यते इत्याशयेन सकलादेशविकलादेशस्वभावाभ्यां सप्तभङ्गी विभजते
सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा योगपद्येन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेणाऽभिधायकं वाक्यं विकलादेशः ।
सेयमिति । अनन्तरोपदर्शिता मानसप्रत्यक्षस्थेत्यर्थः । तृतीयस्थाने 'स्यादवक्तव्यमेवे'ति भङ्गमुररीकृत्य, आद्याः त्रयः सकलादेशस्वभावा अन्त्याः चत्वारो विकलादेशस्वभावा इति श्रीसिद्धसेनादयो मन्यन्ते । देवसूरयस्तु सप्तानामपि भङ्गानां प्रत्येकं सकलादेशस्वभावत्वं विकलादेशस्वभावत्वं च प्रतिपन्नाः, तन्मतं प्रतिगृह्मैव प्रतिभङ्गमित्युक्तम् ।। १. सप्तभङ्ग्याः प्रमाणवाक्यत्वं नयवाक्यत्वं वा न सम्भवतीति शङ्काकर्तुरभिप्रायः ।