________________
सकलादेश-विकलादेशी
१८९ तत्र सकलादेशं लक्षयति-तत्रेति । सकलादेशस्वभावविकलादेशस्वभावयोर्मध्ये इत्यर्थः । प्रमाणप्रतिपन्नेति । श्रुतप्रमाणपरिच्छिन्नेत्यर्थः । वस्तुन इत्यस्य प्रतिपादकमित्येतद्घटकप्रतिपत्तावन्वयः । तत्रैकैकधर्मेण धर्मिप्रतिपादके एकैकस्मिन् भङ्गे यौगपद्येनाऽनन्तधर्मात्मकवस्तुविषयकप्रतीतिजनकत्वं कथं नाम स्यादित्याकाङ्क्षानिवृत्तये कालादिभिरित्यादिहेतुवचनम् । कालादिभिरित्यस्याऽभेदोपचारादित्यत्राऽप्यन्वयः । कालादयोऽष्टावग्रे निरूपयिष्यन्ते । एवमभेदवृत्तिप्राधान्याभेदोपचारावपि । अनन्तधर्मात्मकघटरूपवस्तुगतोल्लिख्यमानैकास्तित्वादिधर्मेण सह, कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशात् सर्वेषामेव घटगतानां नास्तित्वादिधर्माणामभेदवृत्तिप्राधान्यतः, पर्यायार्थिकनयादेशाद् वस्तुतोऽन्योन्यभिन्नानां तेषामभेदवृत्तेरसम्भवेऽभेदोपचारतो वा, यौगपद्येनैकास्तित्वादिप्रतिपादनद्वारा तदभिन्नाशेषधर्मप्रतिपादकत्वेनाऽनन्तधर्मात्मकवस्तुनः प्रतिपादकं यद् वचनं तत् सकलादेश इत्यर्थः ।
विकलादेशं प्ररूपयति-नयेति । नयेन सङ्ग्रहादिनयेन विषयीकृतस्य विषयताकक्षीकृतस्य, नयविषयस्येति यावत् । वस्तुधर्मस्य अनन्तधात्मकघटादिगतैकास्तित्वादिधर्मस्य, कालादिभिरष्टभिः पर्याथिकनयादेशाद् घटादिगतानामन्येषां नास्तित्वादिधर्माणां भेदवृत्तिप्राधान्यम्, द्रव्यार्थिकनयादेशाद् भेदोपचारं वाऽऽश्रित्य क्रमेण प्रतिपादकं यस्य धर्मस्योल्लिख्यमानत्वं तस्य धर्मस्य प्रतिपादनमात्रेण तदात्मना घटदिप्रतिपादकं यद् वचनं तद् विकलादेश इत्यर्थः ।
क्रमयोगपद्ये स्वरूपतोऽजानन् परः पृच्छतिननु कः क्रमः ? किं वा यौगपद्यम् ? विविच्य क्रमयोगपद्यस्वरूपोपदर्शनेनोत्तरयति
उच्यते-यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् । ...
प्रथमं क्रमस्वरूपं निर्वक्ति-यदेति । एकशब्दस्य='अस्ती'त्यादि-अस्तित्वाद्येकधर्मप्रतिपादकशब्दस्य । यौगपद्यं निरूपयति-यदा त्विति । तदात्मकताम्-उल्लिख्यमानप्रतिनियतास्तित्वाद्येकधर्माभिन्नताम्, आपन्नस्य प्राप्तस्य । अन्यत् स्पष्टम् ।
कालादीनां स्वरूपमुपदर्शयितुं तत्र परजिज्ञासामुत्थापयतिके पुनः कालादयः?