________________
१२
• सटीकजैनतर्कभाषायां ननु योग्यताज्ञानशाब्दबोधयोः कारणकार्यभावेऽपि समानविषयकत्वं दृश्यते एवेति फलस्य स्वपरव्यवसायित्वे प्रमाणस्याऽपि स्वपरव्यवसायित्वं स्यादेवेति प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति हेतूपादानं प्रमाणस्य स्वपरव्यवसायित्वासम्भवप्रतिपत्तयेऽयुक्तमिति चेत् ?
न, अन्यत्र भिन्नयोः समानविषयतया कार्यकारणभावे समानविषयकत्वस्य सम्भवेऽपि, प्रकृते य एव प्रमाणस्य स एव यदि फलस्याऽपि विषयः, तदा फलेन यत् प्रकाशयितव्यं तत् प्रमाणेन प्रकाशितमेवेति न तत्प्रकाशनेन फलं किञ्चिदित्यतः प्रमाण-फलयोर्विषयभेदस्याऽवश्यमभ्युपगन्तव्यत्वात् ।
न च-प्रमाणफलयोविषयभेदः-प्रमाणस्य स्वप्रकाशकत्वेन स्वव्यवसायित्वात्, फलस्य परप्रकाशकत्वेन परव्यवसायित्वादप्युपपद्यते इति 'प्रमाणस्य परव्यवसायित्वं फलस्य च स्वव्यवसायित्व'मित्यत्र विनिगमकं नास्तीति-वाच्यम् ।
यत:२१. 'घटमहं जानामी'त्याद्यनुव्यवसायस्य 'अयं घट'इत्यादिव्यवसायफलत्वं पादनात्। किञ्च, प्रमाणफलस्वरूपविषयको जैनतर्कसिद्धान्तोऽपि इदानीं यावन्निविवादं स्वपरप्रकाशयोरेव फलत्वं प्रतिपादयन् सर्वत्र दृश्यते इति तं सिद्धान्तमपि प्रस्तुतशङ्काग्रन्थः कथं न बाधेत इति चेत्ः
___ अवधेहि, यद्यपि स्वपरव्यवसितेरेव प्रमाणफलत्वं निर्विवादं जैनतर्कसम्मतम्, तथापि अत्र ग्रन्थकृता विज्ञानवादीयबौद्धपरम्परायां लब्धप्रतिष्ठः स्वमात्रसंवेदनस्य प्रमाणफलत्वसिद्धान्तः, इदानीं यावत् जैनतर्कपरम्परायां अलब्धप्रतिष्ठोऽपि औचित्यं समीक्ष्य सनिवेशितः । तथा च ग्रन्थकर्तुस्तात्पर्यमत्र इत्थं भाति-यद्यपि ज्ञानं स्वं परं चोभयं प्रकाशयति तथापि तदीयं स्वमात्रप्रकाशनं फलकोयै निपतति । स्वमात्रप्रकाशनस्य फलत्वोक्तावपि वस्तुतः ज्ञानात्मकस्वप्रकाशनस्य 'विषयनिरूप्यं हि ज्ञानम्, ज्ञानवित्तिवेद्यो विषयः' [मुक्ता० का० १३६.] इति सिद्धान्तानुसारेण स्वविषयविषयकत्वान्यथानुपपत्त्या परप्रकाशनगर्भितत्वमपि पर्यवस्यति इति परव्यवसितेरादेव लभ्यत्वेन गौरवादेव स्वपरोभयव्यवसितेः साक्षात् फलत्वेनाऽभिधानं ग्रन्थकृता नाऽऽदृतम् । प्रमाणफलयोरभेदपक्षं समाश्रित्य च प्रमाणस्य स्वपरव्यवसायित्वोक्तिः फलस्य च स्वपरव्यवसितित्वोक्तिः सङ्गमिता । ग्रन्थकर्तुरयमभिप्रायः अग्रेतनेन 'ज्ञानाभावनिवृत्तिरुचर्थज्ञातताव्यव्यहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम्' इति ग्रन्थेनाऽपि स्फुटीभवति । १. योग्यताज्ञानं पदार्थानामन्वयं विषयीकरोति । शाब्दबोधविषयोऽपि पदार्थानामन्वय एव । २. एकस्यैव ज्ञानस्यांऽशद्वयं-स्वसंवेदनं च परसंवेदनं च । तत्र स्वव्यवसायित्वस्य फलत्वम्, परव्यवसायित्वस्य
च प्रमाणत्वमिति पूर्वपक्षे उक्तम् । तत्र केनचिदाशङ्का प्रदर्श्यते-स्वव्यसायित्वस्य प्रमाणत्वम्, परव्यवसायित्वस्य च फलत्वमिति कथं न स्यात् ? इति । तदाशङ्कापनोदनाय पूर्वपक्षेण युक्तिचतुष्टयं प्रदर्श्यते ।