________________
प्रमाणफलचर्चा
ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत्,
किमित्याक्षेपे, न किञ्चिदिति तदर्थः । अन्यत् = सम्यग्ज्ञानरूपप्रमाणाद् भिन्नम् । तत्फलम् = सम्यग्ज्ञानलक्षणप्रमाणफलम् ।
प्रमाण-तत्फलयोः कथञ्चिद् भेदाभेदस्यैव स्याद्वादे स्वीकृतत्वेन प्रमाणात् सर्वथा भिन्नस्य तत्फलस्याऽभावेनोपदेष्टुमशक्यत्वेऽपि, प्रमाणात् कथञ्चिद् भिन्नाभिन्नस्य स्वार्थव्यवसितिलक्षणस्य तत्फलस्य सम्भवाद्, नोक्ताक्षेपः स्याद्वादिनं प्रति कमपि दोषमावहतीति समाधत्ते
सत्यम्, स्वार्थव्यवसितेरेव तत्फलत्वात् । सत्यमिति । अन्यफलापाकरणमिष्टमेवेत्यर्थः । तत्फलत्वात् = प्रमाणफलत्वात् ।
ननु यथा च भवन्मते-व्यवसायिज्ञानमात्रस्य प्रमाणलक्षणत्वोपपत्तौ 'स्वपरे'ति स्वरूपविशेषणार्थमेव, लक्षणे तदनिवेशेऽपि नाऽतिव्याप्त्यादिदोषः; तथा 'स्वार्थे त्यपि स्वरूपविशेषणार्थमेव-स्वार्थव्यवसितिरूपत्वादेव तद्रूपाया एव तस्याः फलत्वसिद्धः (?) । एवं च 'व्यवसितिः प्रमाणं' 'व्यवसितिः फल'मित्येकेनैव धर्मेण प्रमाणत्वं फलत्वं च स्यात्, तच्च न सम्भवति-प्रमाणफलभावस्य भेदनियतत्वात् । अतः स्वव्यवसायित्वेन फलत्वंपरव्यवसायित्वेन प्रमाणत्वमित्येवमवश्यमभ्युपगन्तव्यत्वेन प्रमाणस्य स्वपरव्यवसायित्वं स्वाभ्युपगतं न स्यादिति शङ्कते
नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात्-प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत्,
नन्वेवमिति । स्वार्थव्यवसितेः फलत्वाङ्गीकारे इत्यर्थः ।
'ननु यद्येवम्'–प्रस्तुतस्य शङ्कासमाधानग्रन्थस्य मूलं स्याद्वादरत्नाकरे [पृ० ५२] इत्थं
दृश्यते
अत्र 'ज्ञानस्याऽथ प्रमाणत्वेः' इत्यादि रत्नप्रभायामुद्धृतं श्लोकत्रयं (पृष्ठ १४) समस्ति ।
'स्वव्यवसायित्वात्'-ननु देवसूरिकृतं 'स्वपर' इत्यादिसूत्रं तदीयां च रत्नाकरव्याख्यामवलम्ब्य प्रमाणस्य फलं दर्शयता श्रीमता उपाध्यायेन 'स्वार्थव्यवसितेरेव तत्फलत्वात्' इत्युक्तम्, अस्य च उक्तसूत्र-तदीयव्याख्यानुसारी स्वपरव्यवसितिरेवाऽर्थः फलत्वेन पर्यवस्यति । तथा च अत्रत्यः स्वमात्रव्यवसितेः फलत्वप्रदर्शनपरः आशङ्काग्रन्थः कथं सङ्गच्छेत ? यतो हि 'स्वपरव्यवसायि'इत्यादिसूत्रव्याख्यायां अग्रेतने च 'स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलं तु'इत्यादिसूत्रे [प्र० न० ६.१६] स्वयं देवसूरिणा स्वपरव्यवसितेरेव फलत्वस्य प्रति