________________
सटीकजैनतर्कभाषायां परोक्षबुद्ध्यादिवादिनां मीमांसकादीनां, बाह्यार्थापलापिनां ज्ञानाद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् ।।
____ परोक्षेति । आदिपदात् समानाधिकरण-समनन्तर-स्वविषयकपरोक्षवेद्यबुद्ध्युपग्रहः । 'मीमांसकादीना'मित्यत्र ‘आदि पदाद् वैशेषिकाद्युपग्रहः । स्वरूपेति । विशेषणं द्विविधम्-१. स्वरूपविशेषणम् २. व्यावर्त्तकविशेषणम् । स्वरूपविशेषणमेव चोपरञ्जकविशेषणमुच्यते, स्वरूपपरिज्ञानरूपफलत्वेनाऽस्याऽपि न निष्फलत्वम् । सम्भवे व्यभिचारे च विशेषणमर्थव'दिति वचनं च व्यावर्त्तकविशेषणपरम्, तस्य हि विशेष्ये सम्भवोऽपि वर्तते, व्यभिचारोऽपि । व्यभिचार इत्थम्-१. तद्विनाऽपि विशेष्यतावच्छेदकाक्रान्तस्याऽन्यस्य सद्भावात् २. तस्याऽपि च विशेष्यतावच्छेदकशून्ये वृत्तेः । तत्र 'शुक्लं जल'मित्यत्र जलस्य शौक्ल्यं विशेषणं प्रथम-तत्र सम्भवमात्रम्, द्वितीयं 'नीलो घट' इत्यत्र घटस्य नीलरूपत्वम् । प्रकृते च स्वपरेति विशेषणं व्यवसायिज्ञानात्मकप्रमाणस्य स्वरूपपरिज्ञानफलकमुक्तमित्यर्थः ।
ननु स्वपरेति स्वरूपविशेषणमेवेत्याश्रयणे 'व्यवसायिज्ञानं प्रमाण'मित्येवाऽऽश्रितं स्यात्, तत्र व्यवसायश्च यथावस्थितत्वेन निश्चय एव-इति शब्दान्तरेण 'सम्यग्ज्ञानं प्रमाण'मित्याख्यातम् । सम्यग्ज्ञानं च प्रमैव, तस्येदानी प्रमाणत्वे आश्रिते करणं तत् संवृत्तम् । अथ च तस्य तदतिरिक्तं फलं वक्तव्यम्, न च तद् वक्तुं शक्यमिति फलाभावात् करणमप्यनुपपन्नमिति करणार्थक अनट् प्रत्ययान्त-'मा'धातुनिष्पन्न-प्रमाणपदार्थरूपलक्ष्यस्य तादात्म्येन लक्षणत्वमप्युक्तज्ञानस्य न सम्भवतीत्याशङ्कते
'मीमांसकादीनाम्'-कुमारिलप्रभृतयो हि ज्ञानमात्रस्य परोक्षत्वेन परप्रकाश्यत्वं मन्वानाः अर्थप्राकट्याख्येन तत्फलेनैव हेतुना तदनुमितिमङ्गीकुर्वाणाः तस्य स्वप्रकाशत्वं निरस्यन्तीति ते परोक्षबुद्धिवादिनोऽभिधीयन्ते ।
जैनमते हि सर्वस्याऽपि ज्ञानस्य स्वपरप्रकाशकत्वनियमात् 'स्वपर' इति विशेषणाऽभावेऽपि स्वपरव्यवसायित्वरूपस्याऽर्थस्य सिद्धान्तबलेनैव लाभात् 'स्वपर' इति विशेषणं कस्मात् ? इत्याशङ्क निवारयितुमुक्तम्-'स्वरूपविशेषणार्थम्' इत्यादि । तथा च नेदं विशेषणं किञ्चिद्व्यावर्तकतया लक्षणे निवेशितं येन व्यावृत्त्यभावप्रयुक्ता तद्वैयर्थ्याशङ्का स्यात् । किन्तु स्वरूपमात्रनिदर्शनतात्पर्येणैव तत् तत्र निवेशितम् । न च स्वरूपविशेषणे व्यावृत्तिलाभप्रत्याशा । विशेष्यस्वरूपविषयकबोधजननरूपं तत्फलं तु अत्रापि निर्बाधमिति नैतस्य विशेषणस्य वैयर्थ्याशङ्का ।
१. वस्तुतः प्रथमो व्यभिचार एव 'सम्भवे व्यभिचारेः' इति नियमे कक्षीक्रियते । द्वितीयस्य स्वरूपविशेषणेऽपि
सद्भावात्-शुक्लं जलमित्यत्राऽपि शौक्लस्य जलत्वशून्ये वृत्तेः ।