________________
प्रमाणलक्षणपदकृत्यम् (प्र.न.१.९) इति सूत्रलक्षिते शुक्तिकाया'मिदं रजत'मित्याकारके विपर्यये, १ किमित्यालोचनमात्रमनध्यवसाय' इति सूत्रलक्षिते (प्र.न.१.१३) 'किमपि मया स्पृष्ट'मित्याकारके गच्छत्तृणस्पर्शज्ञानरूपेऽनेध्यवसाये च प्रमाणतात्मकज्ञानत्वस्य सत्त्वेनाऽतिव्याप्तिवारणाय व्यवसायिपदमित्यर्थः ।
तथा च यथास्थितत्वेन निश्चयत्वलक्षणव्यवसायत्वं तद्वति तत्प्रकारकतदभावाप्रकारकनिश्चयत्वे पर्यवसितम् । संशये च तदभावाप्रकारकत्वस्य निश्चयत्वघटकस्याऽभावाद्, विपर्यये च तद्वति तत्प्रकारकत्वस्याऽभावाद्, अनध्यवसाये च नियतप्रकारताविशेष्यत्वयोनिरूपकत्वस्याऽभावाद् न व्यवसायित्वम् । संशयविपर्ययानध्यवसायाः समारोपाः, तद्विरोधी च व्यवसाय-इति समारोपेऽतिव्याप्तिवारणायेत्युक्तौ लाघवसम्भवेऽपि स्पष्टप्रतिपत्तये इत्थमभिधानम् ।
यद्यपि स्वमते ज्ञानमात्रं स्वप्रकाशस्वरूपं परप्रकाशकं चेति 'स्वपरे'ति विशेषणानुपादानेऽपि नाऽतिव्याप्तिः, तथापि १. 'ज्ञानमात्रमतीन्द्रियम्, किन्तु स्वजन्यज्ञाततालिङ्गकानुमानेन तद् गृह्यते, तदनुमानप्रयोगश्च-इयम् घटनिष्ठज्ञातता-घटत्वप्रकारकघटविशेष्यकज्ञानजन्याघटत्वप्रकारकघटनिष्ठज्ञाततात्वाद्-या यत्प्रकारिका यनिष्ठा ज्ञातता सा तत्प्रकारकतद्विशेष्यकज्ञानजन्या, यथा पटत्वप्रकारकपटनिष्ठज्ञातता' एवं परोक्षज्ञानवादिनो मीमांसकप्रकाण्डस्य कुमारिलभट्टस्य, २. 'निर्विकल्पकज्ञानातिरिक्तं ज्ञानमात्रं यद्यपि प्रत्यक्षस्वरूपयोग्यम्, तथापि ईश्वरयोगिज्ञानातिरिक्तस्य तस्य स्वविषयकत्वं न सम्भवतीति स्वसमानाधिकरण-स्वानन्तरोत्पन्नानुव्यवसायात्मकप्रत्यक्षज्ञानेन व्यवसायो गृह्यते, यथा “अयं घट" इति व्यवसायो “घटमहं जानामीत्यनुव्यवसायेन गृह्यते" इत्येवं स्वसमानाधिकरण-समनन्तरप्रत्ययवेद्यं ज्ञानमिति वादिनोऽपरप्रकाशज्ञानिनो नैयायिकस्य वैशेषिकस्य च, ३. ४ तादात्म्यमेव विषयविषयिभावनिबन्धनमिति ज्ञानाभिन्नो ज्ञानाकार एव ज्ञानविषयः, ज्ञानाकाराद् भिन्नं बाह्यं वस्तु समस्त्येव ने'ति स्वमात्रविषयकमेव सर्वं ज्ञानं बाह्यवस्तुनोऽभावादेव न बाह्यवस्तुविषयकमिति ज्ञानाद्वैतवादिनो योगाचारस्य बौद्धविशेषस्य च मतमपहस्तयितुं स्वपरेति विशेषणमित्याह
१. सामान्यमात्रगोचरयोरावग्रहानध्यवसाययोरीहाजननाऽजननरूपफलभेदाद् भेदोऽवसेयः । २. नजोऽत्राऽल्पार्थकत्वम्, न चाऽऽत्यन्तिकनिषेधपरत्वम्-तथा सति अनध्यवसायस्याऽज्ञानत्वेन ज्ञानपदेनैव
तद्व्यावृत्तिसम्भवे, व्यवसायिपदेन तद्व्यावृत्तिदर्शनानुपपत्तेः । ३. संशये पुरुषत्ववति पुरुषत्वाभावाप्रकारकत्वस्याऽसत्त्वाद्, विपर्यये शुक्तित्ववति शुक्तित्वप्रकारकत्वाऽभावात्,
अनध्यवसाये च स्वनिरूपितनियतप्रकारताविशेष्यतयोरेवाऽभावाद न निश्चयत्वमिति भावः । ४. न्यायसिद्धान्तमुक्तावली, का० ४९ ।