________________
८
सटीकजैनतर्कभाषायां
अत्र = उक्तलक्षणवाक्ये । स्वमते सामान्यमात्रविषयकग्रहणमनाकारोपयोगस्वरूपं दर्शनमित्युच्यते । तत्स्थाने सामान्यानुपगन्त्रा बौद्धेन स्वलक्षणमात्रगोचरं निर्विकल्पकप्रत्यक्षमुपेयते, तच्च न प्रमाणमथापि प्रत्यक्षप्रमाणतया तेनाऽभ्युपेयते । वस्तुतोऽलक्ष्ये लक्षणगमनादतिव्याप्तिः स्यादतः तद्वारणाय ज्ञानपदम् । तच्च विशेषावगाहिबोधे सविकल्पात्मके सङ्केतितमिति दर्शनस्याऽतथात्वाद् न तत्राऽतिव्याप्तिः ।
यदा' च बौद्धाभ्युपगत-स्वलक्षणविषयक-निर्विकल्पकप्रत्यक्षात्मकदर्शने एवाऽतिव्याप्तिवारणाय ‘ज्ञान’पदोपादानमुपपादितम्, तदा ज्ञानदर्शनयोरैक्यमभ्युपगच्छतां नव्यानां मते दर्शनस्य लक्ष्यतया, ग्रन्थकारोपाध्यायमते नैश्चयिकावग्रहस्वरूपस्य दर्शनस्य मतिज्ञानत्वेन प्रामाण्ये च तत्राऽतिव्याप्त्यसम्भवेऽपि न क्षतिः । अपि चोक्तलक्षणं श्रीमद्देवसूरिनिर्दिष्टमेव, तन्मते च दर्शनं ज्ञानात् पृथगेवाऽभिमतमिति तदुक्तलक्षणघटकविशेषणव्यावृत्तिः तन्मतमवलम्ब्य युक्तैव ।
वस्तुतो 'दृश्यतेऽनेनेति दर्शन' मिति व्युत्पत्त्या 'दर्शन' पदेन प्रत्यक्षकारणमिन्द्रिय े - मिन्द्रियसन्निकर्षो वाऽज्ञानरूपमपि प्रमाणतया नैयायिकवैशेषिकाभ्यामुपगतम्, तस्य चाऽज्ञानरूपतयाऽप्रामाण्याद् जैनमते न तत्र प्रामाण्यमभ्युपगतमिति लक्ष्यभिन्ने तत्र लक्षणगमनवारणाय ज्ञानपदमिति बोध्यम् ।
व्यवसायीति विशेषणस्य प्रयोजनमुपदर्शयति
संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् ।
‘साधक-बाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशय' इति सूत्रलक्षिते (प्र.न.१.११) ‘अयं स्थाणुर्वा पुरुषो वे' त्याकारके संशये, 'विपरीतैककोटिनिष्टङ्कनं विपर्यय'
यद्यपि सन्मतिटीकाकृता अभयदेवेन द्वितीयकाण्डप्रथमगाथाव्याख्यायां दर्शनस्याऽपि प्रामाण्यं स्पष्टमुक्तम्, यद्यपि च स्वयं ग्रन्थकारेणाऽपि सामान्यमात्रग्राहिणो नैश्चयिकावग्रहत्वं वदता दर्शनस्य मतिज्ञानोपयोगान्तर्गतत्वेनैव प्रामाण्यं सूचितं भाति; तथापि माणिक्यनन्दि-वादिदेवसूरिप्रभृतिभिर्जैनतार्किकैः यद् दर्शनस्य प्रमाणकोटेर्बहिर्भावसमर्थनं कृतं तदभिप्रेत्य ग्रन्थकृता अ दर्शनस्य प्रमाणालक्ष्यत्वं मन्वानेन 'दर्शनेऽतिव्याप्तिवारणाय' इत्याद्युक्तम् ।
१. श्रीसिद्धसेनाचार्यादयो ज्ञानदर्शनयोरैक्यमभ्युपगच्छन्ति, ग्रन्थकारोपाध्यायश्च दर्शनस्य मतिज्ञानोपयोगान्तर्गतत्वमनुमन्यते इति तेषां मते दर्शनं प्रमाणं प्रमाणलक्षणलक्ष्यं चैवेति 'दर्शनेऽतिव्याप्तिवारणाये 'त्यसङ्गतं भवेत् । यदा च दर्शनपदस्य बौद्धाभ्युपगतनिर्विकल्पकप्रत्यक्षेत्यर्थोऽनुमतः तदा नाऽसङ्गतिरित्यत्र भावः । २. 'इन्द्रियं करणं मतम् ॥' ( कारिकावली ५८)