________________
१३
प्रमाणफलचर्चा ज्ञानस्य स्वसमानाधिकरण-समनन्तरज्ञानवेद्यत्वमभ्युपगच्छता नैयायिकेनाऽभ्युपेयते एवतद्विषयंकप्रत्यक्षं प्रति विषयस्य कारणत्वादिति वस्तुस्थितौ परप्रकाशेऽनवस्थानात् स्वप्रकाशमभ्युपगच्छद्भिः स्याद्वादिभिरेकस्यैव ज्ञानस्य 'अयं घटः, घटमहं जानामी'त्युभयाकारकत्वमुपेयते इति 'घटमहं जानामी'त्यनुव्यवसायस्थानीय-स्वसंवेदनरूपस्वव्यवसितेः फलत्वम्, तज्ज्ञानीयव्यवसायस्थानीय-'अयं घट' इति बाह्यघटादिलक्षणपरप्रकाशस्वरूपपरव्यवसितेः प्रमाणत्वं युज्यते एव ।
२. अपि च सर्वमेव ज्ञानं स्वसंविदितमिति स्वांशे न संशयादिरूपम्, न हि भवति यस्य कस्यचिदपि ज्ञानस्योत्पत्तौ-'ज्ञानवानहं न वे'ति संशयो, 'न ज्ञानवा'निति विपर्ययोऽनध्यवसायो वेति स्वांशे समारोपानात्मकत्वात् स्वव्यवसितिरूपतदंशस्य ज्ञानसामान्यकारणकूटलक्षणज्ञानसामग्रीजन्यत्वाद् न प्रत्यक्षादिप्रमाणलक्षणज्ञानविशेषप्रयोजकसामग्रीजन्यत्वमिति प्रमाणकोटिबहिर्भावात् प्रमाणफलत्वम् । घटपटादिबाह्यविषयकत्वात् परप्रकाशकत्वांशे-(१) दोषादिघटितसामग्रीप्रभवत्वे प्रमेयव्यभिचारित्वलक्षणमप्रामाण्यम्, तच्चाऽवान्तरसामग्रीविशेषप्रभवत्वेन संशयत्वविपर्ययत्वादिरूपतामञ्चति २) गुणादिघटितसामग्रीप्रभवत्वे 'यथावस्थितत्वेन निश्चयत्व'लक्षण-प्रमेयाव्यभिचारित्वलक्षणप्रामाण्यम्, तच्चाऽवान्तरसामग्रीविशेषप्रभवत्वेन प्रत्यक्षपरोक्षप्रमाणत्व-तदवान्तरप्रमाणभेदरूपतामासादयतीति प्रमाणकोटिसन्निवेशः परव्यवसायित्वांशस्य ।
३. किञ्च, प्रत्यक्षमात्रस्य संवेदनं 'साक्षात्करोमी'ति, अनुमितिमात्रस्य संवेदनं 'अनुमिनोमी'ति, प्रत्यभिज्ञानमात्रस्य संवेदनं 'प्रत्यभिजानामी'ति तादृशेन संवेदनेन ज्ञानस्य कुत्र प्रामाण्यमिति न निर्णीयते । तादृशसंवेदनस्वरूपतयैव च ज्ञानस्य प्रामाण्याभ्युपगमे-स्वसंविदितं घटप्रत्यक्षमिव पटप्रत्यक्षमपीति स्वसंवेदनस्वरूपत्वाविशेषाद् घटप्रत्यक्षवत् पटप्रत्यक्षमपि घटे प्रमाणं स्यादिति पटप्रत्यक्षसंवेदनादपि घटसिद्धिः प्रसज्येत । परव्यवसायित्वेन प्रामाण्ये च स्वव्यवसितित्वस्याऽविशेषेऽपि परव्यवसितिस्वभावाद् घटप्रत्यक्षमेव घटे प्रमाणम्, न पटप्रत्यक्षम् । तत एव च 'अर्थेनैव विशेषो हि निराकारतया धिया'मिति वचनमपि व्याख्यातं भवति ।
४. यद् न स्वस्वरूपमवभासयति तद् न परस्वरूपमप्यवभासयति, यथा स्तम्भादिकम्, स्वस्वरूपं नाऽवभासयति चाऽज्ञानरूपमिन्द्रिय-तत्सन्निकर्षादि, ततो नाऽर्थावभासकमिति नैयायिकाभ्युपगतस्याऽस्वसंविदितज्ञानस्य स्वप्रकाशकत्वाभावात् परप्रकाशकत्वं न स्यात्, परव्यवसितित्वाभावे च प्रामाण्याभाव एवेति प्रमाण्योपपादकत्वेन स्वसंवेदनस्य स्वव्यवसिति१. अनुव्यवसायस्य प्रकाशार्थं पुनर्ज्ञानान्तरमभ्युपेयमित्यनवस्था । २. आत्ममन:संयोगादि।