________________
सटीकजैनतर्कभाषायां पर्यवसन्नस्य भवेदुपादेयतेति सिध्यति प्रमाणस्य परव्यवसायित्वं फलस्य च स्वव्यवसायित्वमिति ।
प्रमाणफलयोरुक्तदिशा भेदेऽपि उपयोगात्मना कथञ्चिदभेदस्याऽपि भावेन फलस्य स्वव्यवसायित्वे तदभिन्नत्वात् प्रमाणस्याऽपि स्वव्यवसायित्वम्, एवं प्रमाणस्य परव्यवसायित्वे तदभिन्नत्वात् फलस्याऽपि परव्यवसायित्वमित्येवं तयोर्द्वयोरपि स्वपरव्यवसायित्वस्योपपत्तिरिति समाधत्ते
न, प्रमाण-फलयोः कथञ्चिदभेदेन तदुपपत्तेः । तदुपपत्तेः स्वपरव्यवसायित्वस्य सम्भवात् । उक्तशङ्कासमाधानमूलीभूतस्य"ज्ञानस्याऽथ प्रमाणत्वे, फलत्वं कस्य कथ्यते ? । स्वार्थसंवित्तिरस्त्येव, ननु किं न विलोक्यते ? ॥ स्यात् फलं स्वार्थसंवित्तिर्यदि नाम तदा कथम् ।
स्वपरव्यवसायित्वं, प्रमाणे घटनामियात् ? ॥ उच्यते-स्यादभेदात् प्रमाणस्य, स्वार्थव्यवसितेः फलात् ।
नैव ते सर्वथा कश्चिद्, दूषणक्षण ईक्ष्यते ॥" [स्या. र. पृष्ठ ५२] इति वचनकदम्बकस्याऽपि स्याद्वादरत्नाकरगतस्योक्ताभिप्रायोऽनुशीलनीयः ।
यदा च प्रमाणफलयोरुक्तदिशा भेदोऽभेदोऽपि च, तदाऽऽत्मनो व्यापाररूपमुपयोगेन्द्रियमेव स्वपरव्यवसायिज्ञानत्वात् प्रमाणम्, न तु चक्षुरादीन्द्रियं जडरूपं-स्वपरव्यवसायिज्ञानरूपत्वाभावादिति निगमयति
इत्थं चाऽऽत्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । इत्थं च = स्वपरव्यवसायिज्ञानस्य प्रमाणलक्षणत्वे चेत्यर्थः ।
अत्र 'आत्मा ज्ञानेनाऽर्थं प्रमिणोती'त्यनुभवः साक्षिभावं भजते । स्पर्शादिविषयप्रकाशस्वरूपक्रियां प्रति. कर्तृकारकरूपस्याऽऽत्मनः सव्यापारत्वं-छेदनलक्षणक्रियाकर्तुः तीक्ष्णकुठारादिकरणोत्पतननिपतनानुकूलयत्नलक्षणव्यापारवत्त्ववदावश्यकं-व्यापारमन्तरेण कर्तुः क्रियाकारकत्वासम्भवात् । स च व्यापार उपयोग एव । तस्य स्वपरव्यवसायित्वात् क्रियायाश्चाऽपि स्वपरव्यवसायित्वमित्याशयेनाऽऽह. न ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति-निर्व्यापारेण कारकेण क्रिया