________________
प्रमाणस्वरूपचर्चा
जननायोगात्;
१५
सव्यापारस्यैवाऽऽत्मनो ज्ञानलक्षणक्रियाजनकत्वमिति-नियमानभ्युपगमे इन्द्रियसन्निकर्षमात्रेणाऽऽत्मनः तत्क्रियाकर्तृत्वाभ्युपगमे च सुषुप्तिसमयेऽपि देहव्यापक - त्वगिन्द्रियेण मसृणतूलिकादिसन्निकर्षस्य सद्भावात् तेन तूलिकादिस्पार्शनज्ञानस्योत्पत्तिप्रसङ्गेन स्पार्शनज्ञानाद्यभावलक्षणसुषुप्त्यवस्थैव विलीयेतेत्याह
मसृणतूलिकादिसन्निकर्षेण सुषुप्तस्याऽपि तत्प्रसङ्गाच्च ।
तत्प्रसङ्गात् = स्पर्शादिप्रकाशप्रसङ्गात् ।
ननु आत्मव्यापाररूपस्योपयोगेन्द्रियस्य प्रमाणत्वे तद्भिन्नमेव फलं स्याद्, अन्यथा ' स्वस्यैव स्वं प्रति करणत्वं स्वं प्रति क्रियात्वं च विरुद्धं स्यात् - क्रियाकरणभावस्य पौर्वापर्यनियतत्वात्, स्वस्य स्वापेक्षया पौर्वापर्यासम्भवाच्च । भेदे च स्वव्यवसायिनः फलस्यपरव्यवसायित्वं परव्यवसायिनः प्रमाणस्य स्वव्यवसायित्वं चाऽनुपपन्नम् । स्वरूपतो भिन्नयोरपि प्रमाणफलयोरुपयोगस्वभावत्वेनाऽभेदमभ्युपेत्य स्वपरव्यवसायित्वस्याऽभ्युपगमे - नीलज्ञानाद् जायमाने पीतज्ञानेऽपि नीलविषयत्वं स्यात्, पीतज्ञानजनके च नीलज्ञाने पीतविषयत्वं प्रसज्येतउपयोगस्वभावत्वेन तयोरप्यभेदस्य भावादिति चेत्;
न, एकविषयकै कजातीयोपयोगस्थले यावद् न विषयान्तरोपयोगः तावत्कालं समानविषयकोपयोगस्याऽवान्तरवैलक्षण्येन वैलक्षण्यभावेऽपि तावदुपयोगव्यापि दीर्घोपयोगस्यैकस्य भावेन, तदात्मनाऽवान्तरवैलक्षण्यापन्नोपयोगयोरभेदस्याऽप्यभ्युपगमेन, २ तद्बलात् फलाभिन्नस्य प्रमाणस्य फलविषय - स्वव्यवसायित्वस्य प्रमाणाभिन्नस्य फलस्य प्रमाणविषयपरव्यवसायित्वस्य च सम्भवेन, फल- प्रमाणयोः स्वपरव्यवसायित्वोपपत्तेः । नीलज्ञानपीतज्ञानयोश्च भिन्नविषयकयोर्विजातीययोर्वा कार्यकारणभावमापन्नयोर्यावत्कालमवस्थानं * तदन्यतरनिरुपितम्, तावत्कालीनः तदुपयोगद्वयव्यापी दीर्घोपयोग एको नाऽभ्युपगम्यते, इति न तदात्मना तदुपयोगद्वयस्याऽभेद इति तयोरन्योन्यविषयविषयकत्वस्य तद्बलादापत्तेरसम्भवात् ।
यद्वा प्रमाण–फलभाव एकस्याऽप्युपयोगस्यैकस्मिन्नपि क्षणे उपपद्यते । तथाहिनैयायिकवैशेषिकादिभिरीश्वरज्ञानं नित्यमपि प्रमोपेयते, ईश्वरश्च तदकर्त्ताऽपि प्रमाता, तथा तदकरणमपीश्वरः प्रमाणम् । तथा च प्रमाणजन्यत्वाभावेऽपि प्रमास्वरूपतया फलरूपमीश्वर
१. अन्यथा = प्रमाणफलयोरभेदे ।
२. प्रमाणज्ञानफलज्ञानयोरेकविषयत्वमेकजातीयत्वं वा । ततस्तयोः परस्परं वैलक्षण्येन भेदेऽपि, एकविषयत्वेन तदुपयोगद्वयव्यापि दीर्घोपयोगस्यैकत्वेन तदात्मनाऽभेदोऽपि । नीलज्ञान- पीतज्ञानयोस्तु नैवम् ।