________________
सटीकजैनतर्कभाषायां ज्ञानम्, तत्कर्तृत्वाभावेऽपि तद्वत्त्वात् प्रमाता महेशः, प्रमात्मकस्वज्ञानकरणत्वाभावेऽपि तदयोगव्यवच्छेदवत्त्वात् प्रमाणमीश्वरः । तदुक्तं कुसुमाञ्जलावुदयनाचार्येण
मितिः सम्यक् परिच्छित्तिः, तद्वत्ता च प्रमातृता ।
तदयोगव्यवच्छेदः प्रमाण्यं गौतमे मते ॥ इति । (कुसुमा० ४.५)
अस्याऽर्थः-मितिः = प्रमितिः = सम्यक्-परिच्छित्तिः = यथार्थज्ञानम्, तद्वत्ता = प्रमाधिकरणता = प्रमातृता = प्रमातृभावः, तदयोगव्यवच्छेदः = प्रमया सह अयोगस्य = असम्बन्धस्य व्यवच्छेदः = अभावः = प्रामाण्यं = प्रमाणत्वम्, गौतमे मते = न्यायमते । एवमेव स्याद्वादेऽपि स्वव्यवसायिन्या प्रमया सह तदात्मकस्य स्वपरव्यवसायिनः प्रमाणस्य, तादात्म्यलक्षणस्य योगस्य सद्भावे, तदभावलक्षणायोगस्य व्यवच्छेदः = तादात्म्यलक्षणो योगोऽस्तीति तल्लक्षणं प्रामाण्यं सङ्गतिमञ्चत्येव ।
स्वं प्रति स्वस्य करणत्वाभावेऽपि यथा प्रमाणोपपत्तिः, तथा स्वकार्यत्वाभावेऽपि प्रमायाः फलत्वं निर्वहत्येव । प्रमाणस्य हि अज्ञाननिवृत्तिः फलम्, अज्ञानं तु ज्ञानाभावः, तन्निवृत्तिः तु ज्ञानमेव-अभावाभावस्य प्रतियोगिरूपत्वात् । ज्ञानं च यद्यपि प्रमाणप्रमोभयस्वभावं तथापि स्वव्यवसितिस्वभावस्वरूपमेव तत्फलरूपमज्ञाननिवृत्तिलक्षणं ज्ञानं-यतः 'अयं घट' इत्यतो न भवति 'ज्ञातो घट' इति व्यवहारः, किन्तु 'घटमहं जानामी'त्यनन्तरमेव, 'ज्ञातो घट' इति व्यवहारोऽज्ञाननिवृत्त्यनन्तरमेवाऽवश्यंभावीत्यतो निर्णीयतेऽर्थज्ञातताव्यवहारनिबन्धनत्वात् स्वव्यवसितिलक्षणप्रमारूपैवाऽज्ञाननिवृत्तिः फलम् । यदा च संशयविपर्ययानध्यवसायलक्षणसमारोप एवाऽज्ञानं तदाऽपि तन्निवृत्तिः सम्यग्ज्ञानस्वरूपैवेति ।
तत्त्वार्थश्लोकवात्तिके विद्यानन्देन अर्थग्रहणशक्तिस्वरूपमेव प्रमाणं प्रकटीकृतम्, तन्मतं प्रतिक्षेतुमुपन्यस्यतिकेचित्तु-ततोऽर्थग्रहणाकारा, शक्तिर्ज्ञानमिहात्मनः ।
करणत्वेन निर्दिष्टा, न विरुद्धा कथञ्चन ॥ (त० श्लो० १.१.२२) ततोऽर्थ०-श्रीमता विद्यानन्देन स्वकीयस्य शक्तिकरणत्वपक्षस्य तात्पर्य प्रस्तुतपद्यव्याख्यायामित्थं प्रकटीकृतम्-"नहि...(अत्र सम्पूर्णमुद्धरणं रत्नप्रभावद् द्रष्टव्यम् ।)
विद्यानन्दीयं मतं पराकर्तुकामेन श्रीमता देवसूरिणा तदीयपक्षोपन्यासपुर:सरमित्थं निराकरणं कृतम्-"केचित्तु-'ततोऽर्थग्रहणाकारा....' इति परमार्थतो भावेन्द्रियस्यैव अर्थग्रहणशक्तिलक्षणस्य साधकतमतया करणताध्यवसायादिति च ब्रुवाणा लब्धीन्द्रियं प्रमाणं समगिरन्त, तन्न समगंस्त, उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, सन्निकर्षादिवदुपचारत एव