________________
१७
प्रमाणस्वरूपचर्चा
इति लब्धीन्द्रियमेवाऽर्थग्रहणशक्तिलक्षणं प्रमाणं सङ्गिरन्ते ।
केचिदिति । अस्य सङ्गिरन्ते इत्यनेनाऽन्वयः । अर्थग्रहणशक्तेः प्रमाकरणत्वात् प्रमाणत्वमित्यर्थकस्य 'ततोऽर्थे'ति पद्यस्य तदीयं व्याख्यानं यथा
"न हि अन्तरङ्गबहिरङ्गार्थग्रहणरूपाऽऽत्मनो ज्ञानशक्तिः करणत्वेन कथञ्चिद् निर्दिश्यमाना विरुध्यते-सर्वथा शक्तितद्वतोभ॑दस्य प्रतिहननात् ।
"ननु च ज्ञानशक्तिर्यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसङ्गादनुमेयत्वविरोधः । यदि पुनरप्रत्यक्षा तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धिः-तत्र करणज्ञानस्य परोक्षव्यवस्थितेः फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षकरणज्ञानमिच्छद्भिर्न तत् शक्तिरूपमेषितव्यं स्याद्वादिभिरिति चेद्; तदनुपपन्नम्, एकान्ततोऽस्मदादिप्रत्यक्षत्वस्य करणज्ञानेऽन्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनाऽनभ्युपगमात् ।
"द्रव्यार्थतो हि ज्ञानमस्मदादेः प्रत्यक्षम, प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षम् । तत्र 'स्वार्थव्यवसायात्मकं ज्ञानं' 'स्वसंविदितं फलं प्रमाणाभिन्नं' वदतां करणज्ञानं कथमप्रत्यक्षं नाम ? न च येनैव रूपेण तत् प्रमाणं तेनैव फलं येन विरोधः । किं तर्हि ? साधकतमत्वेन प्रमाणं साध्यत्वेन फलम् । साधकतमत्वं तु परिच्छेदनशक्तिरिति प्रत्यक्षफलज्ञानात्मकत्वात् प्रत्यक्षम्, शक्तिरूपेण परोक्षम् । ततः स्यात्प्रत्यक्षम्, स्यादप्रत्यक्षमित्यनेकान्तसिद्धिः । ...
"यदा तु प्रमाणाद्भिनं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा स्वार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति न परमतप्रवेशः, तच्छक्तेरपि सूक्ष्मायाः परोक्षत्वात् । तदेतेन सर्वं कादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कर्तादिशक्तिरूपतयोक्तं प्रत्येयम् । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्टा न स्वागमेन युक्त्या च विरुद्धेति प्रमाणतोपत्तेः ।
अथ न जैनानामेकान्तेन किञ्चित् प्रत्यक्षमप्रत्यक्षं वा, तदिह द्रव्यार्थतः प्रत्यक्षा ज्ञानशक्तिः पर्यायार्थतस्तु परोक्षा । अयमर्थः-स्वपरपरिच्छित्तिरूपात् फलात् कथञ्चिदपृथग्भूते आत्मनि परिच्छिन्ने तथाभूता तज्जननशक्तिरपि परिच्छिन्नैवेति । नन्वेवं आत्मवर्तिनामतीतानागतवर्तमानपर्यायाणामशेषाणामपि द्रव्यार्थतः प्रत्यक्षत्वात् यथा ज्ञानं स्वसंविदितमेवं तेऽपि स्वसंविदिताः किं न स्युः ? किञ्च, यदि द्रव्यार्थतः प्रत्यक्षत्वात् स्वसंविदिता ज्ञानशक्तिः तदाऽहं घटज्ञानेन घटं जानामि इति करणोल्लेखो न स्यात् । नहि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षत्वेऽपि प्रतिक्षणपरिणामिनामतीतानागतानां च कुशूलकपालादीनामुल्लेखोऽस्ति ।"-स्या० र० पृ० ५३ ।