________________
१८
सटीकजैनतर्कभाषायां सूक्त"मिति।
लब्धीन्द्रियमेवेति । इन्द्रियं द्विविधं द्रव्येन्द्रियभावेन्द्रियभेदात् । तत्र द्रव्येन्द्रियं निर्वृतीन्द्रियोपकरणेन्द्रियभेदाद् द्विधा, निर्वृतीन्द्रियं चक्षुरादीनां गोलकाद्यधिष्ठानम्, उपकरणेन्द्रियं तद्गतशक्तिविशेषः । भावेन्द्रियमपि द्विधा-उपयोगेन्द्रियलब्धीन्द्रियभेदात्, तत्रोपयोगेन्द्रियं स्वपरव्यवसायिज्ञानस्वरूपमात्मनोऽर्थोपलब्धिक्रियाजनने व्यापारस्वरूपम् । तस्योपयोगस्याऽर्थग्रहणशक्तिस्वरूपं लब्धीन्द्रियम् । तस्यैव प्रमाणत्वं नाऽन्येन्द्रियाणामित्येतदर्थमेवकारोपादानम् ।
एतन्मतं प्रतिक्षिपतितदपेशलम्, उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, लब्धीन्द्रियस्य प्रमाणत्वसमर्थनमसुन्दरमित्यर्थः ।
अर्थप्रमितिलक्षणफलं प्रति यदव्यवधानेन करणं तदेव साधकतमत्वात् प्रमाणम् । एतादृशं च स्वपरव्यवसायिज्ञानमेव, तदात्मकोपयोगद्वाराऽर्थग्रहणशक्तिलक्षणं लब्धीन्द्रियं च व्यवहितं कारणमिति तद् न साधकतममिति न प्रमाणम् । व्यवहितकारणस्य प्रमाणत्वाभ्युपगमे द्रव्येन्द्रियादेरज्ञानस्याऽपि प्रमाणत्वं स्यादित्याशयेनाऽऽह-उपयोगात्मनेति । उपयोगेन्द्रियात्मकेनेत्यर्थः । लब्धेः = अर्थग्रहणशक्तिलक्षण-लब्धीन्द्रियस्य ।
यथा च वढ्यादौ दाहादिक्रियानुकूलाः शक्तयोऽतीन्द्रियत्वेनाऽप्रत्यक्षाः तथ्यमप्यर्थग्रहणानुकूलोपयोगगता शक्तिरिति परोक्षस्वभावा सा प्रमाणम्, प्रत्यक्षस्वभावं फलज्ञानस्य च प्रमेयत्वाऽभ्युपगमे (?) भवतः-करणस्य परोक्षत्वं फलज्ञानस्य च प्रत्यक्षत्वमभ्युपगच्छतः प्रभाकरस्य मते प्रवेशोऽपि प्रसज्यत इत्याह
शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्ष-प्रत्यक्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च ।
ननु सर्वस्याऽनेकान्तत्वमभ्युपगच्छतां जैनानां मते किञ्चिदपि वस्तु नैकान्तेन प्रत्यक्षमप्रत्यक्षं वा, किन्तु कथञ्चित् । एवं चाऽर्थग्रहणशक्तिरपि पर्यायतः परोक्षाऽपि द्रव्यार्थतः प्रत्यक्षा। स्वपरपरिच्छित्तिलक्षणफलात् कथञ्चिदभिन्नस्याऽऽत्मनः प्रत्यक्षत्वेन तदभिन्नाया अर्थग्रहणशक्तेरपि तदात्मना प्रत्यक्षत्वात् । एतदभिप्रायकमेव 'द्रव्यार्थतो ही'ति तद्वचनम् । एवं च न प्राभाकरमतप्रवेशः, तत्र करणज्ञानस्य सर्वथा परोक्षत्वस्य फलज्ञानस्य सर्वथा प्रत्यक्षत्वस्य चाऽभ्युपगमादित्याशङ्कते
अथ ज्ञानशक्तिरप्यात्मनि स्वाश्रये परिच्छिन्ने द्रव्यार्थतः प्रत्यक्षेति न दोष इति चेत्,