________________
प्रमाणस्वरूपचर्चा
स्वाश्रये = ज्ञानशक्त्याश्रये ।
यद् हि साक्षात्संवेदनेन स्वात्मना संवेद्यते तदेव स्वसंविदितं भवति यथा सुखादि । ग्रहणशक्तिस्तु नैव संवेदनविषय 'आत्म'द्रव्याभेदात् तथा, यतः सा करणं ज्ञानात्मना भवति, संविदिता तु स्वाश्रयात्मस्वरूपेण । एवं च स्वसंविदितत्वाभावे, घटाद्यर्थज्ञानफलाद्यवगाहिप्रत्यक्षे सा स्वस्वरूपेण करणतयोल्लिखिता न भवेत् तद्रूपेण तस्या अप्रत्यक्षत्वात् । न हि यद् द्रव्यार्थतः प्रत्यक्षम्, तस्य पर्यायार्थतः प्रत्यक्षप्रतीतौ स्वस्वरूपेण पर्यायात्मनोल्लेखो भवति । तथा तदुल्लेखाभ्युपगमे, मृदात्मनः कलशस्य प्रत्यक्षकाले कलशाभिन्नमृद्भाने तदात्मना कुशूलकपालादीनां प्रत्यक्षत्वेन, कलशप्रत्यक्षे तेषामपि कुशूलकपालादिपर्यायात्मनोल्लेखः प्रसज्येतेति प्रतिक्षिपति
न, द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थितेः, 'ज्ञानेन घटं जानामि' इति करणोल्लेखानुपपत्तेश्च, न हि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूलकपालादीनामुल्लेखोऽस्तीति ।
द्रव्यद्वारा प्रत्यक्षत्वेन = प्रत्यक्षविषयद्रव्याभिन्नत्वप्रयुक्तप्रत्यक्षत्वोपचारेण । सुखादिवदिति । प्रत्यक्षज्ञानस्वरूप-सुखादिपर्यायस्वरूपसुखादेर्यथा स्वसंविदितत्वं न तथेति व्यतिरेकेण दृष्टान्तः ।
तस्मात् प्राभाकरमतप्रवेशभयाद्, 'ज्ञानेन घटं जानामी'ति करणोल्लेखानुपपत्तिभयाच्च न लब्धीन्द्रियं प्रमाणम्, किन्तु स्वपरव्यवसायिज्ञानस्वरूमुपयोगेन्द्रियमेव । तस्य प्रमास्वरूपादभेदेऽपि तत्तत्पूर्वक्षणवृत्तित्वविशिष्टज्ञानस्वरूपत्वेन करणत्वम्, तत्तदुत्तरक्षणवृत्तित्वविशिष्टस्वरूपत्वेन च फलत्वं नाऽनुपपन्नमिति भावः ।
प्रमाणविभजनम् । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमाने द्वे प्रमाणे इति बौद्धा वैशेषिकाच, प्रत्यक्षानुमानशब्दाः प्रमाणानीति साङ्ख्याः , उपमानेन सह तानि चत्वारीति गौतमीयाः अर्थापत्त्या सह तानि पञ्चेति प्राभाकराः, अनुपलब्ध्या सह तानि षडिति भाट्ट-वेदान्तिनौ, एवं सम्भवैतिह्यचेष्टादीन्यपि प्रमाणानि वादिनो मन्यन्ते । ततः प्रमाणे सङ्ख्यायां बढ्यो विप्रतिपत्तयः । तद्व्यपोहाय प्रतिनियतसङ्ख्याप्रतिपत्तिफलकं प्रमाणविभागमादर्शयति
तद् द्विभेदं-प्रत्यक्षं परोक्षं च । तद् = उक्तलक्षणलक्षितं प्रमाणम् । द्विभेदमिति । द्वौ भेदौ = विशेषौ यस्य तद्