________________
२०
सटीकजैनतर्कभाषायां
द्विभेदम्, स्वसाक्षाद्व्याप्यसामान्यद्वयकप्रमाणत्ववदिति यावत् । तेन - चाक्षुषादिभेदेन प्रत्यक्षज्ञानव्यक्तीनां स्मरण-प्रत्यभिज्ञान- तर्का - ऽनुमान - शाब्दभेदेन परोक्षव्यक्तीनां बहुत्वसङ्ख्यायोगित्वेऽपि न क्षतिः ।
व्युत्पत्तिनिमित्ताश्रयेण प्रत्यक्षशब्दार्थं तावदाह
अक्षम् = इन्द्रियं प्रतिगतं = कार्यत्वेनाऽऽश्रितं प्रत्यक्षम्,
प्रतिगतं = कार्यत्वेनाऽऽश्रितमित्यर्थकरणेनेन्द्रियत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयज्ञानं प्रत्यक्षमिति लभ्यते । इन्द्रियत्वं च इन्द्रस्य = आत्मनो लिङ्गत्वम् । नैयायिकेन तु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वं मनः साधारणमुक्तम्, तच्च सिद्धान्ते मनसोऽनिन्द्रियत्वेन तद्गतत्वादतिव्याप्त्योपेक्ष्यम् ।
उक्तव्युत्पत्तिनिमित्तं च पारमार्थिकप्रत्यक्षेऽवध्यादौ नाऽस्तीति तद्गतं प्रत्यक्षपदव्युत्पत्तिनिमित्तमुपदर्शयितुमाह
अथवाऽश्नुते = ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्यौणादिकनिपातनाद् अक्षो जीवः, तं प्रतिगतं प्रत्यक्षम् ।
सर्वेषामेवाऽऽत्मनां ज्ञानं जगद्विषयकमेव परं स्वावरणकर्मप्रतिबन्धात् स्वविषयी - भूतमप्यर्थं न प्रकाशयति । यद्विषयावच्छेदेनाऽऽवरणस्य क्षयोपशमादिः तं विषयं प्रकाशयत् प्रतिनियतविषयकमुच्यमानमपि वस्तुस्थित्या सर्वविषयकम् । एवं विषयतासम्बन्धेन ज्ञानस्य वस्तुत्वव्यापकत्वाद्, ज्ञानस्य चाऽऽत्मना समं भेदाभेदस्य सम्बन्धत्वेनाऽऽत्मनः कथञ्चिदभिन्नत्वमिति ज्ञानात्मना सर्वार्थव्याप्तेर्घटनादगत्याऽऽत्माऽक्षः ।
तं = जीवम् । तं प्रतिगतत्वं च तन्मात्राधीनतयोत्पत्तिमत्त्वमेव । 'नह्येकं जनक' मिति नियमादात्ममात्राधीनतयोत्पत्तिर्नाऽवध्यादीनामपि परमात्मातिरिक्तं चक्षुरादिकमवध्यादिज्ञानजनने आत्मा नाऽपेक्षते, तज्ज्ञानावरणीयकर्मक्षयोपशमादिकं त्वपेक्षत एव - इत्येतावतैवाऽऽत्ममात्राधीनत्वमत्र विवक्षितमिति बोध्यम् ।
अत्रेन्द्रियजन्यत्वरूपस्य ‘प्रत्यक्ष' पदव्युत्पत्तिनिमित्तस्य 'प्रत्यक्ष'लक्षणत्वे इन्द्रियाजन्येऽवध्यादिप्रत्यक्षेऽव्याप्तिः । आत्ममात्राधीनतयोत्पत्तिमज्ज्ञानत्वरूपस्य तस्य 'प्रत्यक्ष' - लक्षणत्वे इन्द्रियमपेक्ष्याऽऽत्मजन्ये मत्यादिप्रत्यक्षेऽव्याप्तिरित्याशङ्क्य प्रतिक्षिपति
१. स्वं प्रमाणत्वम्, तत्साक्षाद्व्याप्यं सामान्यद्वयं = प्रत्यक्षत्व-परोक्षत्वे, तद्वत् प्रमाणत्वम्, तद्वत् प्रमाणम् । चाक्षुषत्वादीनां प्रमाणत्वव्याप्यव्याप्यत्वाद् न साक्षाद्व्याप्यत्वम् ।