________________
प्रत्यक्षलक्षणम्
२१
न चैवमवध्यादौ मत्यादौ च प्रत्यक्षव्यपदेशो न स्यादिति वाच्यम्,
एवं = अनन्तरोपदर्शितस्य व्युत्पत्तिनिमित्तस्य 'प्रत्यक्ष'लक्षणतयाऽऽ श्रयणे । अवध्यादाविति । 'आदि' पदाद् मनः पर्यव - केवलयोरुपग्रहः । तेषु इन्द्रियाश्रितत्वलक्षण- व्युत्पत्तिनिमित्तस्याऽभावात् 'प्रत्यक्ष' व्यपदेशो न भवेदित्यर्थः । मत्यादाविति । 'आदि' पदात् श्रुतज्ञानस्य परिग्रहः । तयोरात्ममात्राधीनज्ञानत्वस्याऽभावात् तन्निमित्तकस्य 'प्रत्यक्ष' व्यपदेशस्याऽभावः स्यादित्यर्थः ।
यद्यपीन्द्रियमनिन्द्रियस्याऽप्युपलक्षकम्, तथा च - इन्द्रियानिन्द्रियान्यतरजन्यत्वात्ममात्राश्रितत्वान्यतरवत्त्वस्य प्रत्यक्षलक्षणत्वे न कुत्राप्यव्याप्तिः, तथापि स्पष्टत्वं लघुभूतं प्रत्यक्षपद-प्रवृत्तिनिमित्तमेव प्रत्यक्षलक्षणम्, तत एव च मतिज्ञानादौ सर्वत्र 'प्रत्यक्ष' व्यपदेशो - पपत्तिरित्याशयेन निषेधहेतुमाह
यतो व्युत्पत्तिनिमित्तमेवैतत्,
एतत् = अक्षाश्रितत्वम् । व्युत्पत्तिनिमित्तमेवेति । 'प्रत्यक्ष' व्युत्पत्तिनिमित्तम्, न तु 'प्रत्यक्ष’पदप्रवृत्तिनिमित्तम् । तदर्थाधिगतये एवकारोपादानम् । किं तर्हि 'प्रत्यक्ष' पदप्रवृत्ति - निमित्तमित्याकाङ्क्षायामाह -
प्रवृत्तिनिमित्तं तु एकार्थसमवायिनाऽनेनोपलक्षितं स्पष्टतावत्त्वमिति ।
प्रवृत्तिनिमित्तमिति । प्रवृत्तिनिमित्तत्त्वं च वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम् । यथा 'घट' पदस्य घटत्वं प्रवृत्तिनिमित्तम् । तत्र 'घट' पदवाच्यत्वमस्ति - ‘घट’पदस्य घटत्वविशिष्टघटव्यक्तिवाचकत्वे घटत्ववाचकत्वस्य सद्भावात्, 'घट' पदवाच्यघटव्यक्तिवृत्तित्वमप्यस्ति तथा 'घट' पदजन्यघटोपस्थितौ प्रकारत्वमप्यस्ति । तथा 'प्रत्यक्ष' - पदस्य स्पष्टत्वं प्रवृत्तिनिमित्तम्, अर्थात् शक्यतावच्छेदकम् । तत्र स्पष्टताविशिष्टज्ञानवाचकस्य 'प्रत्यक्ष'पदस्य स्पष्टतावाचकत्वस्याऽपि भावेन तद्वाच्यत्वमपि विद्यते । 'प्रत्यक्ष' पदवाच्ये स्पष्टतावति ज्ञाने वृत्तित्वमपि समस्ति । 'प्रत्यक्ष' पदजन्य- स्पष्टताविशिष्टज्ञानोपस्थितौ प्रकार
'यतो व्युत्पत्ति' - " अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम् । अनेन अक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किञ्चिदर्थस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्येत न मानसादि । यथा गच्छतीति गौरिति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति । " - न्यायबि० टी० १.३. । स्या० २० पृ० २६० ।