________________
२२
त्वमप्यस्ति । एवं स्पष्टतावत्त्वमेव 'प्रत्यक्ष'लक्षणम् ।
एकार्थसमवायिना = स्वाधिकरणवर्त्तिना । अनेन = अक्षाश्रितत्वलक्षणव्युत्पत्तिनिमित्तेन । उपलक्षितं = ज्ञायमानम् ।
सटीकजैनतर्कभाषायां
तथा च अक्षाश्रितत्वरूपव्युत्पत्तिनिमित्तेन सामानाधिकरण्यप्रत्यासत्त्या ज्ञायमानं यत् स्पष्टतावत्त्वं ‘प्रत्यक्ष'पदप्रवृत्तिनिमित्तं तदेव 'प्रत्यक्ष' लक्षणम् । अक्षाश्रितत्वमिन्द्रियजन्यत्वादिपर्यवसितं व्युत्पत्तिनिमित्तमेव न प्रवृत्तिनिमित्तं - तस्यैव प्रवृत्तिनिमित्तत्त्वे चक्षुरादिजन्यज्ञानमेव 'प्रत्यक्ष'व्यपदेश्यं स्याद्, न मानसादि । अन्यत्राऽपि व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वं नाऽभ्युपेयते एव, यथा गच्छतीति गौरिति व्युत्पत्त्या गमनक्रियाकर्तृत्वं 'गो' पदव्युत्पत्तिनिमित्तमपि न ‘गो’पदप्रवृत्तिनिमित्तम् । गच्छत्यगच्छति च गवि 'गो' शब्दप्रवृत्तेर्दर्शनेन समानाकारपरिणामलक्षणस्य गोत्वरूपतिर्यक्सामान्यस्यैव सर्वदा गवि वर्त्तमानस्य 'गो' शब्दप्रवृत्ति - निमित्तत्वादिति भावः ।
सकलप्रत्यक्षसाधारणं स्पष्टतास्वरूपं प्रकटयति
स्पष्टता चाऽनुमानादिभ्यो ऽतिरेकेण विशेषप्रकाशनमित्यदोषः ।
अनुमानादिभ्य इत्यत्र 'आदि' पदादागमादीनां परोक्षप्रकाराणामुपग्रहः । अतिरेकेण आधिक्येन = प्रतिनियतवर्णसंस्थानपरिणामादिमत्त्वेन ।
प्रत्यक्षे यथा विषयस्य नियतवर्णसंस्थानादिकमवभासते तथा नानुमानादौ विशेषावभासोऽस्तीति निरुक्तस्पष्टत्ववत्त्वं सर्वत्र प्रत्यक्षे वर्त्तत इति नाऽव्याप्त्यसम्भवौ, अनुमानादावलक्ष्ये च नाऽस्तीत्यतिव्याप्तिरपि नेत्याह- अदोष इति ।
एतावता स्पष्टं प्रत्यक्षमिति फलितम् । ततश्च तद्विपरीतं परोक्षमस्पष्टमिति प्राप्तमेव । तत्राऽपि व्युत्पत्तिनिमित्तं सामानाधिकरण्यप्रत्यासत्त्या प्रवृत्तिनिमित्तस्याऽस्पष्टवत्त्वस्योपलक्षकमेव, न तु तदेव लक्षणम्, यतः तदिन्द्रियातिरिक्तजन्यज्ञानत्वं वाऽऽत्मातिरिक्तकारणजन्यज्ञानत्वं वा भवेत्, प्रथमं मानसप्रत्यक्षेऽवध्यादौ अतिप्रसक्तम्, द्वितीयं च इन्द्रियजप्रत्यक्षेऽतिप्रसक्तम्, तदन्यतरवत्त्वं तु गुरुभूतमेव । ततः 'परोक्ष' पदप्रवृत्तिनिमित्तमस्पष्टतावत्त्वमेव ‘परोक्ष’लक्षणं युक्तमित्याशयेन 'परोक्ष' पदव्युत्पत्तिनिवेदनपुरस्सरं तल्लक्षणमुपदर्शयति
'स्पष्टता'
"अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् ।
तद्वैशद्यं मतं बुद्धेरवैशद्यमतः परम् ॥ " - लघीय० १.४.