________________
प्रमाणविभजनम्
२३
अक्षेभ्योऽक्षाद् वा परतो वर्त्तते इति परोक्षम्, अस्पष्टं ज्ञानमित्यर्थः ।
अक्षेभ्य इति । अत्र 'अक्ष' पदेन चक्षुरादीन्द्रियं विवक्षितम्, तद्बहुत्वाद् बहुवचननिर्देश: । अक्षाद् आत्मनः, व्यक्त्या भिन्नत्वेऽपि जात्यैकत्वादेकवचननिर्देशः । स्पष्टत्वं विशदत्वम्, तद्विपरीतमस्पष्टत्वमविशदत्वम् । तत्राऽनुमानाद्यतिरेकेण विशेषप्रकाशनं स्पष्टत्वमित्यत्र न कस्यापि विप्रतिपत्तिः । अनुमानादीत्यादिरूपेण तस्य गुरुभूतत्वेऽपि, 'साक्षात्करोमी'त्यनुभवसिद्धविषयताविशेषे निरूपकतासम्बन्धेन सकलप्रत्यक्षनियतस्पष्टत्वम्, तदन्यविषयताविशेषे एव 'परोक्षं वहन्यादिकमस्पष्टमनुभवामी' त्यनुभवसिद्धमस्पष्टत्वं निरूपकतासंसर्गेण सकलपरोक्षगतमिति बोध्यम् ।
प्रथमत उद्दिष्टं सामान्यतो लक्षितं च प्रत्यक्षं विभजते
प्रत्यक्षं द्विविधं-सांव्यवहारिकं पारमार्थिकं चेति ।
सांव्यवहारिकं प्रत्यक्षमपारमार्थिकम् । तथा चाऽपारमार्थिकपारमार्थिकभेदेन प्रत्यक्षं द्विविधमित्यर्थः ।
=
संव्यवहारप्रयोजकत्वात् तत् प्रत्यक्षतया व्यवह्रियते - स्पष्टतया चोपचर्यते, न तु तद् वस्तुगत्या प्रत्यक्षम्—अक्षम् = आत्मानं प्रत्यगतत्वात् । साक्षादात्मसम्पाद्यमेव प्रत्यक्षम्, तदेव च पारमार्थिकम्, तच्चाऽवध्यादिकमेवेत्याशयवान् सांव्यवहारिकशब्दार्थोपदर्शनेन प्रथमभेदं स्पष्टयति
सांव्यवहारिकप्रत्यक्षनिरूपणम्
समीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलोकाभिलापलक्षणः संव्यवहारः, तत्प्रयोजनकं सांव्यवहारिकम् - अपारमार्थिकमित्यर्थः, यथा अस्मदादिप्रत्यक्षम् ।
समीचीन इति । अयं समित्युपसर्गस्याऽर्थः । समीचीनत्वं किमित्यपेक्षायामाहबाधारहित इति । व्यवहारस्वरूपजिज्ञासायामाह - प्रवृत्तीति । इष्टसाधनघटादिवस्तुविषयकचाक्षुषादिप्रत्यक्षेणाऽबाधितघटाद्यानयनादिगोचरप्रवृत्तिलक्षणव्यवहारो जायते, अनिष्टसाधन
सर्पादिगोचरचाक्षुषादिप्रत्यक्षेणाऽबाधितसर्पादिनिकटस्थानगमनादिविषयकनिवृत्तिलक्षणव्यवहारो जायते । कदाचिच्च इष्टानिष्टोपेक्षणीयवस्तुविषयकचाक्षुषादिना परप्रतिबोधनाय तत्प्रतिपादकवचनोद्गारलक्षणव्यवहार इति भेदेनोपादानम् ।
तत्प्रयोजनकं = निरुक्तसंव्यवहारप्रयोजनकम् । उपेक्षणीयवस्तुविषयकप्रत्यक्षे सति
१. विशदता विषयनिष्ठा, प्रत्यक्षं तस्या निरूपकमिति निरूपकतासंसर्गेण सा प्रत्यक्षे तिष्ठति ।