________________
सटीकजैनतर्कभाषायां तद्वस्तुविषयिणी भवत्युपेक्षा, परं सा न व्यवहार इति तदकथनम् । संव्यवहारप्रयोजनकप्रत्यक्षत्वरूपव्युत्पत्तिनिमित्तस्य सांव्यवहारिकप्रत्यक्षलक्षणत्वेऽपि न कश्चिद् दोषः । यद्यपि कस्यचित् सहकारिणो वैकल्यात् केनचित् चाक्षुषादिज्ञानेन प्रवृत्त्यादिलक्षणः संव्यवहारो न भवति, तथापि तादृशसंव्यवहारानुकूलशक्तिमत्त्वलक्षण-तज्जनकतावच्छेदकशालित्वेन तज्जननयोग्यत्वमस्त्येवेति न तत्राऽव्याप्तिः ।
व्यावहारिकोऽपि घटादिः पारमार्थिको भवत्येवेति सांव्यवहारिकत्वे पारमार्थिकत्वविरोधाभावात् सामान्यधर्मव्याप्य-परस्परविरुद्धनानाधर्मेण धर्मिप्रतिपादनरूपविभागः प्रत्यक्षस्य सांव्यवहारिकत्व-पारमार्थिकत्वाभ्यामनुपपन्न इत्यत आह-अपारमार्थिकमिति । तथाच सांव्यवहारिकत्वमपारमार्थिकत्वमेव, तच्च पारमार्थिकत्वविरुद्धमिति तद्रूपेण विभागो नाऽनुपपन्न इति भावः ।
यच्चाऽपारमार्थिकं प्रत्यक्षम्, तद् वस्तुतः परोक्षमेव । परोक्षत्वापरोक्षत्वयोः परस्परविरुद्धत्वेनैकस्य यत्राऽपारमार्थिकत्वं स्वासत्त्वनिबन्धनम्, तत्र द्वितीयस्य स्वसत्त्वनिबन्धनं पारमाथिकं स्यात् । अतोऽस्मदादिप्रत्यक्षस्य पारमार्थिकपरोक्षत्वमपारमाथिकप्रत्यक्षत्वप्रयोजकमुपदर्शयति
तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षमेव ।
हि = यतः, तत् = अस्मदादिचाक्षुषादिप्रत्यक्षम् । इन्द्रियेति । इन्द्रियानिन्द्रियाभ्यां चक्षुरादिमनोभ्यां व्यवहितो य आत्मव्यापारः, तत्सम्पाद्यत्वात् = तत्प्रयोज्यत्वात् । आत्मा इन्द्रियानिन्द्रिययोः प्रेरणे व्याप्रियते, ताभ्यां चेन्द्रियजन्यं मनोजन्यं च ज्ञानं जायते इति परम्परयाऽऽत्मजन्यत्वं तत्र, न तु साक्षादात्मव्यापारजन्यत्वलक्षणपारमार्थिकप्रत्यक्षत्वम् । किन्तु व्यवहितात्मव्यापारप्रयोज्यत्वेन परमार्थतः परोक्षत्वमेवेति निर्गलितोऽर्थः ।
यत्र व्यवहितात्मव्यापारप्रयोज्यत्वं तत्र परोक्षत्वमेव, यथा धूमरूपलिङ्गज्ञानेन जन्यं वह्निरूपलिङ्गिज्ञानम् । तत्र धूमज्ञानेनाऽऽत्मव्यापारस्य व्यवहितत्वम् । तथैवेन्द्रियानिन्द्रियजन्यज्ञानेऽपि तद्व्यापारेणाऽऽत्मव्यापारस्य व्यवहितत्वमविशिष्टमिति तद् ज्ञानं परमार्थतः परोक्षमेवेत्याह
'तद्धीन्द्रिया०'-"इदमुक्तं भवति-अपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्येन्द्रियमनांसि, अमूर्ताच्च मूर्त पृथग्भूतम्, ततस्तेभ्यः पौद्गलिकेन्द्रियमनोभ्यो यद् मतिश्रुतलक्षणं ज्ञानमुपजायते तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षम् ।'–विशेषा० बृ० गा० ९०.