________________
सांव्यवहारिकप्रत्यक्षनिरूपणम्
धूमादग्निज्ञानवद् व्यवधानाविशेषात् ।
'यत् संशयविपर्ययानध्यवसायजातीयं-तत् परोक्ष-यथाऽनुमानाभासः', 'यत् सङ्केतस्मरणादिपूर्वकनिश्चयस्वभावं-तत् परोक्षं-यथा सदनुमान'मित्यनुमानाभ्यामिन्द्रियानिन्द्रियजन्यज्ञानस्य संशयादिजातीयत्वात् सङ्केतस्मरणादिपूर्वकनिश्चयस्वभावत्वाच्च परोक्षत्वं सिध्यतीत्याह
किञ्च, असिद्धानैकान्तिकविरुद्धानुमानाभासवत् संशयविपर्ययानध्यवसायसम्भवात्, सदनुमानवत् सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवाच्च परमार्थतः परोक्षमेवैतत् ।
___'यद् इन्द्रियमनोनिमित्तं ज्ञानं-तत् परोक्षं-संशयविपर्ययानध्यवसायानां तत्र सम्भवात्इन्द्रियमनोनिमित्तासिद्धानैकान्तिकविरुद्धानुमानाभासव'दिति प्रथमः प्रयोगः, 'यद् इन्द्रियमनोनिमित्तं ज्ञानं-तत् परोक्षं-तत्र सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवात्-धूमादेरग्न्याद्यनुमानव'दिति द्वितीयः प्रयोग-इत्येवं प्रयोगरचनाऽन्यत्रोपलभ्यते । तत्र यथा 'यो धूमवान् स वह्निमा'निति उदाहरणवाक्ये धूमस्य हेतुत्वं वह्नेः साध्यत्वं च प्रतीयते, तथा 'यद् इन्द्रियमनोनिमित्तं तत् परोक्ष'मिति प्रयोगेऽपि, इन्द्रियमनोनिमित्तत्वस्य हेतुत्वं परोक्षत्वस्य साध्यत्वं च भवेत् । एवं सति उपरितनप्रयोगद्वये पञ्चम्यन्तं वाक्यं न हेत्ववयवतया सङ्गतं भवेत् । किन्तु 'इन्द्रियमनोनिमित्तत्वमस्तु परोक्षत्वं माऽस्तु' इति व्यभिचारशङ्कायाम्, तन्निवर्तकतर्कोपदर्शनार्थमेतत् ।
परोक्षज्ञाने हि अस्पष्टस्वरूपे बहुतरविशेषानवगाहने-एककोटिव्याप्यदर्शनस्य
"किञ्च, असिद्ध०'-"प्रयोगः-यद् इन्द्रियमनोनिमित्तं ज्ञानं तत् परोक्षम्, संशयविपर्ययानध्यवसायानां तत्र सम्भवात्, इन्द्रियमनोनिमित्ताऽसिद्धाऽनैकान्तिकविरुद्धानुमानाभासवदिति प्रथमः प्रयोगः । यद् इन्द्रियमनोनिमित्तं ज्ञानं तत् परोक्षम्, तत्र निश्चयसम्भवात्, धूमादेरग्न्याद्यनुमानवत् इति द्वितीयः । ननु निश्चयसम्भवलक्षणो हेतुः अवध्यादिष्वपि वर्तत इत्यनैकान्तिक इति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, सङ्केतस्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः, तादृशश्चाऽयमवध्यादिषु नाऽस्ति ज्ञानविशेषत्वात्तेषामित्यदोषः ।"-विशेषा० बृ० गा० ९३.
१. भाष्यादिष्वेवं प्रयोगद्वयमुपलभ्यते । तत्र कथं विसङ्गत्याशङ्का भवितुं शक्यते, कथं च तन्निराकरणमिति
प्रदर्श्यतेऽत्र । 'यदिन्द्रियनिमित्तं तत् परोक्ष'मित्युक्तौ परोक्षत्वस्य साध्यत्वे इन्द्रियमनोनिमित्तत्वस्य हेतुत्वं प्रतीयते । तत्र 'संशयविपर्ययानध्यवसायानां तत्र सम्भवात्, सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवा'दित्येवं पुनर्हेतूपन्यासो नौचित्यावह इत्याशङ्का । 'यत्र धूमः तत्र वह्निः, धूमस्य वह्निजन्यत्वा'दित्यत्र धूमस्य वह्निसाध्यकहेतुत्वेऽपि, 'धूमस्य वह्निजन्यत्वा'दित्युपन्यासो यथा प्रतिकूलशङ्कानिवारकः, तथैवाऽत्रापि 'संशयः' इति कथनं प्रतिकूलशङ्कानिवारकतर्कोपदर्शकमिति बोध्यम् ।