________________
२६
सटीकजैनतर्कभाषायां एकप्रकारसाधकस्य प्रकारान्तरबाधकस्य संशयविरोधिनोऽभावात् संशयस्य, विपरीतैककोटिभासकदोषस्याऽपि सम्भवेन तद्बलाद् विपर्ययस्याऽयथावदर्थप्रतिभासतोऽनध्यवसायस्य चाऽस्ति सम्भवः । प्रत्यक्षे तु पारमाथिके यथावस्थितार्थावभासके, बहुतरविशेषावभासकत्वेन विशदस्वरूपे, संशयविरोधिनो विशेषदर्शनस्याऽवश्यम्भावेन न संशयस्य, स्पष्टप्रतिभासत्वादेव दोषासंस्पृष्टत्वेन न विपर्ययस्य, तत एव नाऽध्यवसायस्य च सम्भवः-इति वस्तुस्थितौ 'इन्द्रियानिन्द्रियजं ज्ञानं यदि प्रत्यक्षं स्यात्, तर्हि सम्भवत्संशयादिकं न स्याद्-अवध्यादिवत्, परोक्षत्वे तु असिद्धानैकान्तिकविरुद्धानुमानाभासवत् तत्त्वं भवेदपि' तथा 'इन्द्रियानिन्द्रियजज्ञानस्य यदि परोक्षत्वं न भवेत्, तदा तत्र सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवोऽपि न सम्भवेत्, प्रत्यक्षेऽवध्यादिनिश्चयस्य सङ्केतस्मरणादिपूर्वकत्वस्यैवाऽभावा'दित्येवंविधयोः तर्क योः प्रदर्शनार्थं पञ्चम्यन्तद्वयं बोध्यम् ।
वस्तुतः परोक्षरूपतया व्यवस्थापितं सांव्यवहारिकप्रत्यक्षं विभजते
एतच्च द्विविधम्-इन्द्रियजम्, अनिन्द्रियजं च । तत्रेन्द्रियजं चक्षुरादिजनितम्, अनिन्द्रियजं च मनोजन्म।
एतत् = सांव्यवहारिकप्रत्यक्षम् । तत्र = इन्द्रियजानिन्द्रियजयोर्मध्ये । चक्षुरादीति । आदिपदात् त्वग्-घ्राण-रसन-श्रोत्राणामुपग्रहः । तथा च चाक्षुषस्पार्शनघ्राणजरासनश्रावणभेदेन पञ्चविधमिन्द्रियजप्रत्यक्षमित्यर्थः । मनसोऽनिन्द्रियतया राद्धान्तेऽभ्युपगमात् तज्जन्यं मानसं प्रत्यक्षमनिन्द्रियजमित्याह-अनिन्द्रियेति । मनसोऽनिन्द्रियाद् जन्म = उत्पत्तिर्यस्य ज्ञानस्य तद् मनोजन्मेत्यर्थः ।
चक्षुरादिजन्यप्रत्यक्षेऽपि मनस: कारणत्वाद् मनोजन्यप्रत्यक्षत्वस्याऽनिन्द्रियजलक्षणस्य तत्राऽतिव्याप्तिरित्याह
यद्यपीन्द्रिजज्ञानेऽपि मनो व्यापिपर्ति,
चक्षुरादिजन्यज्ञाने यद् मनसः कारणत्वम्, तद् न मानसप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतारूपम्, किन्त्विन्द्रियजानिन्द्रियजज्ञानसाधारणः सांव्यवहारिकप्रत्यक्षत्वपारमार्थिकपरोक्षत्वादिलक्षणो यद् इन्द्रियजज्ञानत्वादिव्यापको धर्मः, तद्धर्मावच्छिन्नकार्यता
'यद्यपि इन्द्रियज'-"इन्द्रियाणि चक्षुरादीनि, तानि मानसबलाधानसहितानि प्राधान्येन निबन्धनमस्य इति इन्द्रियनिबन्धनम् ।"-स्या० २० पृ० ३४४.