________________
२७
सांव्यवहारिकप्रत्यक्षविभजनम् निरूपितमनस्त्वावच्छिन्नकारणतारूपम् । तच्च अनिन्द्रियजज्ञानलक्षणे न प्रविष्टम् । प्रविष्टं तु मानसप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितं यद् इन्द्रियविधया मनोनिष्ठकारणत्वम्, तन्निरूपितकार्यत्वं न चक्षुरादिजन्यज्ञाने इति न तत्राऽतिव्याप्तिरित्याह
तथापि तत्रेन्द्रियस्यैवाऽसाधारणकारणत्वाददोषः ।
तथापि = इन्द्रियजज्ञाने साधारणकारणतया मनसो व्यापारसद्भावेऽपि । तत्र = इन्द्रियजज्ञाने । इन्द्रियस्यैवेति । एवकारेण मनसो व्यवच्छेदः ।
इन्द्रियजानिन्द्रियजयोरवान्तरभेदमुपदर्शयतिद्वयमपीदं मतिश्रुतभेदाद् द्विधा । द्वयमपीदमिति । इन्द्रियजानिन्द्रियजोभयमपि ज्ञानमित्यर्थः । तद् लक्षयतितत्रेन्द्रियमनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम्, श्रुतानुसारि च श्रुतज्ञानम् ।
तथा च-इन्द्रियनिमित्तकं श्रुताननुसारिज्ञानमिन्द्रियजमतिज्ञानम्, मनोनिमित्तकं श्रुताननुसारिज्ञानमनिन्द्रियजमतिज्ञानम्, इन्द्रियनिमित्तकं श्रुतानुसारिज्ञानमिन्द्रियज श्रुतज्ञानम्, मनोनिमित्तकं श्रुतानुसारिज्ञानं चाऽनिन्द्रियजश्रुतज्ञानमित्यर्थः ।
श्रुतानुसारित्वस्वरूपावगतौ श्रुतानुसारित्वरहितत्वं = श्रुताननुसारित्वं सुखेन प्रतिपत्तुं शक्यत इत्यतः श्रुतानुसारित्वस्वरूपमेवोपदर्शयति
श्रुतानुसारित्वं च- सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घट' इत्याद्यन्तर्जल्पाकारग्राहित्वम् ।
'श्रुतानुसारित्वं'-"श्रूयते इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च सङ्केतविषयपरोपदेशरूपः श्रुतग्रन्थात्मकश्चेह गृह्यते, तदनुसारेणैव यद् उत्पद्यते तत् श्रुतज्ञानम्, नाऽन्यत् । इदमुक्तं भवति-सङ्केतकालप्रवृत्तं श्रुतग्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य ‘घटो घटः' इत्यन्तर्जल्पाद्याकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यद् ज्ञानमुदेति तत् श्रुतज्ञानमिति । शेषमिन्द्रियमनोनिमित्तमश्रुतानुसारेण यद् अवग्रहादिज्ञानं तद् मतिज्ञानम् इत्यर्थः ।" -विशेषा० बृ० गा० १०० । ..
१. मनः कार्यद्वये कारणं भवति १. मानसप्रत्यक्षे २. यावत्सांव्यवहारिकप्रत्यक्षे (=इन्द्रियजज्ञाने मानसप्रत्यक्षे
च)। तत्र प्रथमे कार्यता मानसप्रत्यक्षत्वावच्छिन्ना, कारणता तु मनस्त्वावच्छिना । द्वितीये कार्यतावच्छेदको धर्मः सांव्यवहारिकप्रत्यक्षत्वं वा इन्द्रियजानिन्द्रियजज्ञानव्यापको यः कोऽपि धर्मो वा, कारणतावच्छेदको धर्मो मनस्त्वावच्छिन्नसहकृतचक्षुरादित्व-मनस्त्वान्यतरः ।