________________
२८
सटीकजैनतर्कभाषायां श्रूयते इति श्रुतं शब्दः, स च शाब्दबोधलक्षणभाव श्रुतकारणत्वाद् द्रव्यश्रुतम् । स च सङ्केतविषयपरोपदेशरूपो 'घटपदवाच्यो घट' इत्यादिादशाङ्ग्यादिग्रन्थरूपश्च । तयोरन्यतरमाश्रित्य 'घटो घट' इत्याद्यन्तर्जल्पाकारग्राहित्वं = घटादिशब्दं वाचकत्वेन घटाद्यर्थं वाच्यत्वेन च संयोज्य 'घटो घट' इत्यादिरूपान्तःशब्दोल्लेखसमन्विताकारावगाहित्वम् । तदेव इन्द्रियनिमित्तकज्ञाने अनिन्द्रियजज्ञाने च श्रुतानुसारित्वम् ।
सङ्केतेति । 'अस्मात् पदादयमर्थो बोद्धव्य' इति, 'इदं पदममुमर्थं बोधयत्वि'ति वेच्छा सङ्केतः । यथा 'घटपदाद् घटरूपोऽर्थो बोद्धव्य' इत्याकारिका, 'घटपदं घटरूपार्थं बोधयत्वि'त्याकारिका वेच्छा सङ्केतः । स च-शब्दार्थयोर्वाच्यवाचकभावाभिन्नस्वाभाविकः सम्बन्धः, यद्बलात् शब्दोऽर्थं प्रत्याययति, तस्य शब्दोत्पत्तिकाले शब्दोत्पादकसामग्रीतोऽर्थोत्पत्तिकालेऽर्थोत्पादकसामग्रीतः कथञ्चिच्छब्दार्थोभयाभिन्नस्वभावस्योत्पादेन यावच्छब्दार्थकालं भावेऽपि, अनभिव्यक्तिदशायां नाऽर्थप्रत्ययोत्पादकत्वमिति तदभिव्यक्तये-स्वीक्रियते ।
सङ्केतेन यो विषयः प्रतिपाद्येत स सङ्केतविषयः, स चाऽसौ परोपदेशः = आप्तोपदेशश्चेति सङ्केतविषयपरोपदेशः तम्, अस्य अनुसृत्येत्यनेनाऽन्वयः । उपदेशश्च प्रवृत्तिनिमित्तसामानाधिकरण्येन वाच्यताबोधकं वाक्यम्, यथा 'कोकिल: पिकपदवाच्य' इति । अतिदेशस्तु प्रवृत्तिनिमित्तोपलक्षकधर्मसामानाधिकरण्येन वाच्यताबोधकं वाक्यम्, यथा 'गोसदृशो गवयपदवाच्य' इति । श्रुतग्रन्थं च तत्तच्छब्दस्य तत्तदर्थवाचकत्वादिप्रतिपादकमागमम् ।
तदनुसरणं च यथोपदेशो यथा वा श्रुतग्रन्थो येन रूपेणाऽर्थे येन रूपेण शब्दस्य वाच्यवाचकभावमवबोधयति, तथैव प्रमाता पुरुषः शब्दार्थों वाच्यवाचकभावेन संयोजयति । अन्यथासंयोजने तदनुसरणं न भवेदिति बोध्यम् ।
तथा च चक्षुरादिना वाच्यवाचकभावसंयोजनेन 'घटो घट' इत्याद्यन्तःशब्दोल्लेखान्वितज्ञानं तद् इन्द्रियजश्रुतम्, मनसा च तथाविधं ज्ञानमनिन्द्रियजश्रुतम् । यच्चोक्तदिशा इन्द्रियेण वाच्यवाचकभावसंयोजनमन्तरेणैव घटाद्यर्थज्ञानं तत् श्रुताननुसारित्वादिन्द्रियजमतिज्ञानम्, ईदृशमेव च मनसा जातमनिन्द्रियजमतिज्ञानमिति भावः ।।
१. अस्य 'स्वीक्रियते'इत्यनेनाऽन्वयः । तथा चाऽयमर्थ:-शब्दार्थयोर्वाच्यवाचकभावसम्बन्धः, तत्सम्बन्धबलेन
शब्दादर्थबोधो भवति । स च कथञ्चिदर्थ-शब्दोभयाभिन्नस्वभावो यावच्छब्दार्थकालं तिष्ठति । अतः सङ्केतेन तस्योत्पत्तिर्न भवति, परमभिव्यक्तिर्भवति । यतोऽनभिव्यक्तिदशायां तत्सम्बन्धेन शब्दादर्थबोधो न भवति, ततः
सङ्केतावश्यकता । २. यस्य शब्दस्य यत् प्रवृत्तिनिमित्तं तत्सामानाधिकरण्यं तच्छब्दवाच्यतायां भवति । एवं प्रवृत्तिनिमित्तोप
लक्षकधर्मोऽपि वाच्यतासमानाधिकरणो भवति ।