________________
सांव्यवहारिकप्रत्यक्षनिरूपणम्
ननूक्तरीत्या श्रुतानुसारित्वनिर्वचने शब्दोल्लेखसहितं ज्ञानं श्रुतज्ञानम्, शब्दोल्लेखविनिर्मुक्तं च मतिज्ञानमिति प्राप्तम् । तथा च ज्ञानोपादानत्वेन ज्ञानत्वोपचरिते, अव्यक्तज्ञानस्वरूपत्वाद् वास्तविकज्ञानस्वरूपे वा व्यञ्जनावग्रहे, स्वरूपनामादिकल्पनारहित-सामान्यग्रहणरूपेऽर्थावग्रहे च शब्दोल्लेखविनिर्मुक्तत्वाद् मतिज्ञानत्वस्य सम्भवेऽपि, मतिज्ञानविशेषतया प्रसिद्धे ईहापायादौ शब्दोल्लेखसहितत्वस्यैव भावेन तद्विनिर्मुक्तत्वस्यैवाऽभावाद् मतिज्ञानलक्षणस्य तस्य तत्राऽव्याप्तिः । श्रुतलक्षणस्य शब्दोल्लेखसहितत्वस्य च तत्र भावात् तस्याऽतिव्याप्तिरपि । एवमङ्गानङ्गप्रविष्टेषु श्रुतभेदेष्ववग्रहादिरूपताया अपि भावाद् मतिज्ञानलक्षणस्याऽतिव्याप्तिरित्याशङ्कते—
२९
नन्वेवमवग्रह एव मतिज्ञानं स्यान्न त्वीहादय:, तेषां शब्दोल्लेखसहितत्वेन श्रुतत्वप्रसङ्गादिति चेत्,
'नन्वेवम्'–'अत्राऽऽह कश्चित् ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेषं तु मतिज्ञानम्, तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात्, न पुनः ईहापायादयः-तेषां शब्दोल्लेखसहितत्वात्, मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत्कथं श्रुतज्ञानलक्षणस्य नाऽतिव्याप्तिदोष: ?
अपरञ्च, अङ्गानङ्गप्रविष्टादिषु 'अक्खर सन्नी सम्मं, साईयं खलु सपज्जवसियं च' [आव० नि० १९] इत्यादिषु च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहेहादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात्, मतिज्ञानभेदानां चेहापायादीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तेः उभयलक्षणसङ्कीर्णतादोषश्च स्यात् ।
तदयुक्तम्, यतो यद्यपीहादयः साभिलापाः तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् ।
अथ अवग्रहादयः श्रुतनिश्रिता एवं सिद्धान्ते प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न सङ्गच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् ?
तदयुक्तम्, पूर्वं श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतिनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । सङ्केतकालाद्याकणितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणापि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् । न हि पूर्वप्रवृत्तसङ्केता अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते - 'एतच्छब्दवाच्यत्वेनैतत् पूर्वं मयाऽवगतम् ' इत्येवंरूपं सङ्केतम्, तथा 'अमुकस्मिन् ग्रन्थे एतदित्थमभिहितम्' इत्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः । यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहापायधारणानां सामस्त्येन मतिज्ञानत्वात् न मतिज्ञानलक्षणस्याऽव्याप्तिदोषः,