________________
सटीकजैनतर्कभाषायां एवम् = शब्दोल्लेखसहितत्वस्य श्रुतलक्षणत्वे शब्दोल्लेखरहितत्वस्य च मतिलक्षणत्वे आश्रीयमाणे । तेषां- ईहादीनाम् ।।
श्रुतानुसारिण एव साभिलापकज्ञानस्य श्रुतत्वेन-ईहादीनां श्रुताननुसारित्वेन साभिलापत्वेऽपि न श्रुतत्वम् । सङ्केतकाले एतच्छब्दवाच्यतया गुरुणाऽऽप्तेन केनचिद्वोपदिष्टमेतदिति ग्रहणे सति, तदानीमवग्रहादीनां श्रुतानुसारित्वेन सिद्धान्तोक्तत्वेऽपि; व्यवहारकाले एतच्छब्दवाच्यतयैतद् मया पूर्वमवगतमित्येवंरूपसङ्केताननुसरणेऽपि, अमुकस्मिन् ग्रन्थे एतदित्थमभिहित मित्येवंरूपश्रुतग्रन्थाननुसरणेऽपि, अभ्यासपाटववशाद् विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तित ईहापायधारणानां साभिलापानां सम्भवेन, न तेषां व्यवहारकाले सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावसंयोजनपुरस्सरमन्त:शब्दोल्लेखान्वितार्थावगाहित्वमिति न तत्र श्रुतलक्षणस्याऽतिव्याप्तिः, न वा तद्विरहितत्वलक्षणमतिलक्षणस्याऽव्याप्तिरपि । अङ्गानङ्गप्रविष्टादिश्रुतभेदेषु तु पूर्वं शब्दाद्यवग्रहणकालेऽवग्रहादयो जायमानाः श्रुताननुसारित्वाद् मतिज्ञानविशेषा एव, यस्तु तेषां श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानमेव । इत्थं च मतिविशेषेष्वीहादिषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वाभावाद् नोक्तमतिश्रुतलक्षणयोः सङ्कीर्णताऽपीति समाधत्ते
न, श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वाद्, अभ्यासपाटववशेन श्रुतानुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् ।।
सङ्केतकाले = सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य शब्दार्थयोर्वाच्यवाचकभावेन श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावान्न श्रुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोषः ।
अपरं च, अङ्गानङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात्, प्रथम शब्दाद्यवग्रहणकाले अवग्रहादयः समुपजायन्ते । एते च अश्रुतानुसारित्वात् मतिज्ञानम् । यस्तु तेष्वङ्गानङ्गप्रविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानम् । ततश्च अङ्गानङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात्, ईहादिषु च मतिभेदेषु, श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासम्भवात् नोभयलक्षणसङ्कीर्णतादोषोऽप्युपपद्यत इति सर्वं सुस्थम् । तस्मादवग्रहापेक्षया अनभिलापत्वात् ईहाद्यपेक्षया तु साभिलापत्वात् साभिलापानभिलापं मतिज्ञानम्, अश्रुतानुसारि च, सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दस्य व्यवहारकाले अननुसरणात् । श्रुतज्ञानं तु साभिलापमेव श्रुतानुसार्येव च, सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा श्रुतस्य व्यवहारकाले अवश्यमनुसरणात् इति स्थितम् ।"-विशेषा० बृ० गा० १०० ।