________________
सांव्यवहारिकप्रत्यक्षनिरूपणम्
३१
प्रकारविशेष्यभावेनाऽवबोधनसमये । व्यवहारकाल इति । एतच्छब्दवाच्यतयैतत् पूर्वं मयाऽवगत'मित्येवंरूपसङ्केतानुसरणस्य, 'अमुकस्मिन् ग्रन्थे एतदित्थमभिहित' मित्येवंरूपश्रुतग्रन्थानुसरणस्य चाऽभावेऽपि, 'घटमानये 'ति वाक्यादितोऽभ्यासपाटवादिवशाद्, घटादिपदोल्लिखितघटाद्यर्थविषयकावबोधलक्षण- घटाद्यानयनादिविषयकप्रवृत्त्याद्यात्मकव्यवहारोन्मुखावबोधसमये इत्यर्थः ।
श्रुतनिश्रितानामप्यवग्रहादीनां व्यवहारकाले कथं श्रुताननुसारित्वम्, येन तेषां मतिज्ञानत्वमभ्युपगन्तुमुचितमित्यपेक्षायामाह - अभ्यासपाटववशेनेति । अनभ्यासदशायामयमर्थ एतच्छब्दस्य वाच्य इति तावद् नाऽवधारयति यावद् 'अस्य शब्दस्याऽस्मिन्नर्थे सङ्केतेऽमुकेन पुंसा कृते, अयमर्थोऽस्य शब्दस्य वाच्यः, एतत् पदमस्याऽर्थस्य वाचक' मित्येवं न स्मरति । ततश्चाऽनभ्यासदशायां वाच्यवाचकभावसंयोजनलब्धार्थावगाहनविशेषस्वरूपाणामवग्रहादीनां
श्रुतानुसारिणां श्रुतत्वेऽपि, अभ्यासदशायां - शब्दश्रवणतः तद्वाच्यवाचकभावस्य झटित्युद्बुद्धसंस्कारवशात् स्मरणे तत्तच्छब्दवाच्यार्थावग्रहादेरुक्तसङ्केतानुसरणमन्तरेणाऽपि भावात् शब्दाश्रवणेऽप्यर्थस्येन्द्रियसाम्मुख्यादिलक्षणेन्द्रियसन्निकृष्टत्वे तद्वाचकशब्दस्योद्बुद्धसंस्कारतः स्मरणे तत्संसृष्टार्थावग्रहादेश्च भावात् तस्य मतिज्ञानत्वमेवेति भावः ।
अङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वाद् मतित्वमेव, श्रुतानुसारी प्रत्ययः, तत्र श्रुतत्वमेवेत्यवधेयम् ।
यस्तु तत्र
धारणाः,
अङ्गोपाङ्गादिश्रुतविशेषे तु पूर्वं शब्दादिस्वरूपावग्रहणम्, शब्दादिस्वरूपस्यैवेहापायते च श्रुताननुसारित्वाद् मतिज्ञानविशेषा एवेति । तदनन्तरं तु यत् तत्तत्पदार्थसङ्केतानुस्मरणपुरस्सरं पदार्थ - वाक्यार्थ- महावाक्यार्थेदम्पर्यार्थपरिज्ञानं तत् सर्वं श्रुतानुसारित्वाद् भवति श्रुतमित्याह - यस्त्विति । तत्र - अङ्गोपाङ्गादौ ।
तदयमत्र निष्कर्षः-साभिलापं सत् श्रुतानुसार्येव यद् ज्ञानं तत् श्रुतज्ञानम् । यत्त्वभ्यासपाटवादिवशात् श्रुतानुसरणमन्तरेणाऽपीहादिकं साभिलापं तत् श्रुताननुसारित्वाद् मतिज्ञानम्, यच्चाऽवग्रहज्ञानं साभिलापमपि न भवति तदपि मतिज्ञानम् । तदुभयमिन्द्रियजमनिन्द्रियजं सांव्यवहारिकप्रत्यक्षमिति ।
ननु सिद्धान्ते ज्ञानं पञ्चविधमाम्नातं - मतिज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, मनः पर्यवज्ञानम्, केवलज्ञानं चेति । तथा मतिविपर्ययो मत्यज्ञानम्, श्रुतविपर्ययो श्रुताज्ञानम्, अवधिविपर्ययो विभङ्गज्ञानं चेत्येतानि त्रीण्यज्ञानानि मिथ्यादृष्टेर्भवन्ति । एवं ज्ञानमात्रस्य मत्यादिपञ्चस्वेवाऽन्तर्भावो वाच्य इति वस्तुस्थितिः । अथ प्रत्यक्षस्य सांव्यवहारिकभेदे मतिश्रुतयोः,