________________
३२
सटीकजैनतर्कभाषायां पारमार्थिकभेदे चाऽवधि-मनःपर्यव-केवलज्ञानानां समावेशात्, प्रमाणस्य प्रत्यक्षात्मकप्रथमभेदे एव ज्ञानाशेषभेदानां परिसमाप्तिरिति प्रमाणस्य परोक्षाख्यः पञ्चविधज्ञानस्वरूपातिक्रान्तो द्वितीयभेदोऽलीकतामेवाऽऽकलयतीति चेद्;
न, मतिज्ञानस्य श्रुतज्ञानस्य च बहवो विशेषाः स्वस्वावरणक्षयोपशमविशेषप्रभवा भवन्ति । तत्र ये इन्द्रियानिन्द्रियलक्षणसहकारिविशेषसहकृतस्वावरणक्षयोपशमविशेषसमुत्थाः, ते परोक्षस्वभावा अपि सांव्यवहारिकप्रत्यक्षव्यपदेशमासादयन्तः प्रत्यक्षस्य प्रथमभेदेऽन्तर्भवन्ति, तत्राऽन्तर्भूतश्च मतिज्ञानविशेषोऽवग्रहेहापायधारणाभेदात् चातुर्विध्यमञ्चति, श्रुतज्ञानविशेषश्च लब्ध्यक्षरादिरूपेण व्यवहियते । अन्ये च स्मरणादयो मतिज्ञानविकल्पाः श्रुतज्ञानविकल्पाश्च सांव्यवहारिकप्रत्यक्षव्यपदेशानर्हाः, ते परोक्षप्रमाणतामेवाऽऽत्मनि भजन्ते इति प्रमाणस्य परोक्षाख्यो द्वितीयभेदो नाऽनुपपन्न इति बोध्यम् ।
इन्द्रियानिन्द्रियजभेदेन द्विविधं यद् मतिज्ञानं प्राक् प्रस्तुतं तस्याऽवग्रहादिभेदेन चातुर्विध्यमुपदर्शयति
____ मतिज्ञाननिरूपणम् मतिज्ञानमवग्रहेहापायधारणाभेदात् चतुर्विधम् ।
विशेषानवगाहित्वमेव ज्ञानेऽपकृष्टत्वम्, तदेव चेहादितोऽवग्रहे विशेष इत्यभिसन्धानेनाऽवग्रहं निर्वक्ति
अवकृष्टो ग्रहः-अवग्रहः । स द्विविधः-व्यञ्जनावग्रहः, अर्थावग्रहश्च ।
यद्यपि सामान्यमात्रावगाहित्वलक्षणमप्यपकृष्टत्वं वक्तुं शक्यते, तथापि तस्य सामान्येतरानवगाहित्वे सति सामान्यावगाहित्वरूपतया, तत्र सत्यन्तमात्रस्य व्यञ्जनावग्रहस्य ज्ञानोपादानत्वेनोपचरितज्ञानत्व'मिति पक्षेऽपि तत्र सम्भवेन, लाघवात् तस्यैवाऽपकृष्टत्वरूपत्वमत्र बोध्यम् ।
व्यञ्जनावग्रहार्थावग्रहभेदेन तस्य द्वैविध्यं प्रकटयति-स द्विविध इति । सः = अवग्रहः ।
व्यञ्जनावग्रहपदेन किमुच्यते इत्यपेक्षायां योगलभ्य एवाऽर्थोऽस्य विवक्षितः । योगेन च उपकरणेन्द्रिय-तद्विषययोः सम्बन्धोऽर्थावग्रहादव्यवहितपूर्वकालीनो व्यञ्जनावग्रहशब्देन प्रतिपाद्यते इति स एव व्यञ्जनावग्रह इत्याह
१. अत्राऽपकृष्टत्वं सामान्येतरानवगाहित्वरूपमुक्तम्, तत्र सामान्यमात्रग्राहित्वमित्येव किमर्थं नोक्तमिति
शङ्कायामुत्तरमाह-सामान्यमात्रग्राहित्वस्य सामान्येतरानवगाहित्वे सति सामान्यग्राहित्वमित्यर्थः पर्यवसितः । स च व्यञ्जनावग्रहस्य ज्ञानोपादानत्वादेवोपचरितज्ञानत्वम = अज्ञानत्वमिति पक्षे न सम्भवति-तत्र सामान्यग्राहित्वस्याऽभावादिति ।