________________
व्यञ्जनावग्रहः
३३
व्यज्यते = प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनं-कदम्बपुष्पगोलकादिरूपाणा
मन्तर्निर्वृत्तीन्द्रियाणां शब्दादिपरिणतद्रव्यनिकुरम्बम्, तदुभयसम्बन्धश्च ।
अर्थः = शब्दादिपरिणतद्रव्यनिकुरम्बलक्षणो विषयः, अनेन = अन्तर्निर्वृत्तीन्द्रियाणां शक्तिविशेषलक्षणेनोपकरणेन्द्रियेण प्रकटीक्रियते = स्पष्टं ज्ञायते इति = एवंस्वरूपव्युत्पत्त्या, व्यञ्जनं = व्यञ्जनपदप्रतिपाद्यम् । अस्योपकरणेन्द्रियमित्यनेनाऽन्वयः । शब्दादीति । उपकरणेन्द्रियस्वरूपावगतये एतत् । शक्तिर्निराश्रया न सम्भवतीति तदाश्रयावगतये - अन्तनिर्वृत्तीति । एतत्स्वरूपपरिचयायोक्तं-कदम्बेति ।
शब्दादिविषयपरिच्छेदहेतु-शक्तिविशेषलक्षणमुपकरणेन्द्रियम्,
व्यज्यते = प्रकटीक्रियतेऽर्थोऽनेनेति करणव्युत्पत्त्या व्यञ्जनमुपकरणेन्द्रियम्, व्यज्यते प्रकटीक्रियते इति कर्मव्युत्पत्त्या व्यञ्जनमर्थोऽपीत्याशयेनाऽऽह - शब्दादिपरिणतद्रव्यनिकुरम्बमिति । अत्र आदिशब्देन रसगन्धस्पर्शानां ग्रहणम्, न तु चक्षुर्मनोविषयस्य रूपादेः, तयोरप्राप्यकारित्वेन व्यञ्जनावग्रहाभावात् । शब्दादिरूपेण परिणतानि द्रव्याणि भाषावर्गणादीनि तेषां निकुरम्बम् = अन्यतमम् । 'निकुरम्ब' शब्दस्य समुदायवाचकत्वेऽपि तत्समुदायस्य न कस्यचिदिन्द्रियस्य विषयत्वमिति लक्षणाऽऽ श्रीयते, अथवैकैकस्याऽपि समुदायरूपत्वमनेकप्रचितत्वेन सुसङ्गतमेवेति लक्षणाऽऽनाश्रयणीयेति ।
तदुभयसम्बन्धश्च = इन्द्रियार्थोभयसम्बन्धश्च । चकाराद् यद्यपि व्यञ्जनं सम्बध्यते
‘व्यज्यते’—‘‘तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तर्निर्वृत्तेः शब्दादिविषयपरिच्छेदहेतुः यः शक्तिविशेषः, स उपकरणेन्द्रियम् । शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः । आदिशब्दाद् रसगन्धस्पर्शपरिग्रहः । तद्भावेन परिणतानि च तानि भाषावर्गणादिसम्बन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि । उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च तेषां परस्परं सम्बन्ध उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः - एष तावद् व्यञ्जनमुच्यते । अपरञ्च इन्द्रियेणाऽपि अर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा, शब्दादिपरिणतद्रव्यनिकु रम्बमपि व्यज्यमानत्वात् व्यञ्जनमभिधीयते इति । एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्च इन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसम्बन्धस्वरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रहः, अथवा तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति । उभयत्रापि एकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः ।"— विशेषा० बृ० गा० १९४ ।
१. इन्द्रियस्वरूपस्य विशेषपरिचयार्थं 'निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ (२.१७) लब्ध्युपयोगौ भावेन्द्रियम् ॥ (२.१८) इति तत्त्वार्थाधिगमसूत्रद्वयवृत्तिरवलोकनीया ।