________________
३४
सटीकजैनतर्कभाषायां अर्थस्य प्रकटीकरणे इन्द्रियार्थसम्बन्धस्याऽपि कारणत्वेन, असाधारणकारणत्वलक्षणकरणत्वस्य तत्राऽपि भावतः, करणव्युत्पत्त्या व्यञ्जनपदस्य तत्राऽपि प्रवृत्तिसम्भवात्; तथापि व्यञ्जनपदेनैव तदुभयसम्बन्धस्याऽपि ग्रहणे, अवग्रहपदेन ततोऽन्यदेव ज्ञानं वक्तव्यं स्यात्, ततश्चाऽज्ञानरूपस्येन्द्रियार्थसम्बन्धस्य व्यञ्जनावग्रहत्वाप्राप्त्या 'अथाज्ञानमयमि'त्युत्तरशङ्कानुत्थानं स्याद्, अतो 'व्यञ्जनावग्रह' इत्यत्र शेषो बोध्यः । तथा च तदुभयसम्बन्धः पुनर्व्यञ्जनावग्रहो भवतीत्यर्थः।
___ व्यञ्जनपदेन करणव्युत्पत्त्या इन्द्रियस्य कर्मव्युत्पत्त्याऽर्थस्य चावबोधेऽपि व्यञ्जनावग्रहशब्देन कथं तदुभयसम्बन्धलाभ इत्यपेक्षायामाह
ततो व्यञ्जनेन व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः ।
ततः = व्यञ्जनावग्रहशब्देनेन्द्रियार्थो भयसम्बन्धस्य विवक्षितत्वाद्, व्यञ्जनेन = इन्द्रियेण, व्यञ्जनस्य = शब्दाद्यर्थस्य, अवग्रहः = सम्बन्धः ।
अथवेन्द्रियार्थसम्बन्धोऽपि चकाराद् व्यञ्जनतयैव परिगृह्यते, शेषश्च नाऽऽद्रियते । इत्थं सति व्यञ्जनावग्रहपदेन ज्ञानविशेषस्य कथं लाभ इत्यपेक्षायामाह-तत इति । ततः = इन्द्रियार्थोभयसम्बन्धानां व्यञ्जनत्वाद्, व्यञ्जनेन = इन्द्रियेणेन्द्रियार्थसम्बन्धेन च, व्यञ्जनस्य = अर्थस्य, अवग्रहः = अव्यक्तज्ञानम् । पूर्वं सहार्थे तृतीया, इदानीं करणे, तथा च पूर्व प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धार्था षष्ठी, इदानीं विषयविषयिभावलक्षणसम्बन्धार्था सा ।
व्यञ्जनावग्रहस्याऽव्यक्तज्ञानत्वेनाऽर्थावग्रहाद् भेदः, अर्थविषयकत्वभावाभावाभ्यां व्यक्तत्वाव्यक्तत्वाभ्यां विशेषात् । यद्यपि नैश्चयिकार्थावग्रहस्याऽव्यक्तत्वमेव तथाप्यस्य ज्ञानत्वाभ्युपगमपक्षे एतदपेक्षया तस्य व्यक्तत्वस्याऽप्युररीकरणीयत्वादिति ध्येयम् ।
नन्वर्थावग्रहपूर्ववर्तिनि इन्द्रियार्थसम्बन्धकाले ज्ञानानुपलम्भाद् व्यञ्जनावग्रहोऽर्थेन्द्रियसन्निकर्षरूप एव स्यात्, स च कथं ज्ञानरूपस्य मतिज्ञानविशेषस्याऽवग्रहस्य विशेषो भवेदित्याशङ्कते
१. 'इन्द्रियेण शब्दाद्यर्थस्य सम्बन्ध' इत्यर्थकरणे । तथा च इन्द्रियप्रतियोगिकार्थानुयोगिकोऽर्थानुयोगिकेन्द्रिय
प्रतियोगिको वा सम्बन्ध इत्यर्थः । २. 'इन्द्रियार्थसम्बन्धेनाऽर्थस्याऽव्यक्तज्ञान'मित्यर्थकरणे । तथाच व्यञ्जनविषयकमव्यक्तज्ञानमित्यर्थः । ३. अस्य = व्यञ्जनावग्रहस्य ।