________________
व्यञ्जनावग्रहः
३५
अथ अज्ञानमयं-बधिरादीनां श्रोत्रशब्दादिसम्बन्धवत् तत्काले ज्ञानानुपलम्भादिति
चेद्,
अयं व्यञ्जनावग्रहः । अबधिरादिश्रोत्रशब्दादिसम्बन्धस्य व्यञ्जनावग्रहत्वात् पक्षान्तर्भूतत्वेन, तस्यैव तदज्ञानत्वसाधने दृष्टान्तता न युक्तेत्यत आह-बधिरादीनामिति । बधिरादीनां श्रोत्रेन्द्रियलक्षणोपकरणेन्द्रिय- शब्दादिस्वरूपार्थसन्निकर्षकाले किमपि ज्ञानं नाऽनुभूयते, अननुभूयमानत्वाच्च तद् नाऽस्तीति न तत्र व्यञ्जनावग्रह इष्यते, उत्तरकालेऽर्थावग्रहाभावेन तत्कल्पनाऽसम्भवात् । तथा प्रकृतेऽबधिरादीनां श्रोत्रादीन्द्रियशब्दादिविषयसन्निकर्षकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वात् तदपि नाऽस्ति । यश्च तदानीमस्तीन्द्रियार्थसन्निकर्षः सोऽज्ञानत्वादेव व्यञ्जनावग्रहो न भवितुमर्हतीति शङ्कितुरभिप्रायः ।
=
यद्यपि तदानीं ज्ञानं नोपलभ्यते, तथाप्यर्थावग्रहाद्युत्पादनार्थमिन्द्रियसन्निकर्ष उपादीयते, तदभावे श्रोत्रादिजन्यार्थावग्रहादेरेवाऽभावात् । अतो ज्ञानोपादानत्वाद् ज्ञानार्थमुपादीयमानत्वादिन्द्रियसन्निकर्षे ज्ञानत्वमुपचर्यते । बधिरादीनां च नोत्तरकालं ज्ञानमुत्पद्यते इति तत्र न ज्ञानत्वोपचारः । एवमुपचरितज्ञानत्वस्वभावोऽज्ञानात्माऽपीन्द्रियार्थसन्निकर्षो व्यञ्जनावग्रहइति समाधत्ते
न, ज्ञानोपादानत्वेन तत्र ज्ञानत्वोपचाराद्,
ज्ञानोपादानत्वेनेति । ज्ञानार्थमुपादानं यस्य तद् ज्ञानोपादानम्, तत्त्वेन ज्ञानार्थमुपादीयमानत्वेन ज्ञाननिमित्तत्वेनेति यावत्, तेनाऽज्ञानस्य ज्ञानोपादानत्वाभावेऽपि न क्षतिः ।
तत्र = इन्द्रियार्थसन्निकर्षे ।
ननु यद्युपचरितज्ञानत्वेऽपि व्यञ्जनावग्रहत्वं, तदा निमित्तान्तरस्याऽपि तत्त्वं भवेद्, न वाऽज्ञानस्य ज्ञानत्वमुपचर्य ज्ञानविशेषभेदमध्ये परिगणनं परीक्षाक्षमं भवेदित्यत आह
अन्तेऽर्थावग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टाविशेषाद्यनुमेयस्वप्नज्ञाना
'अथ अज्ञानम् ' - " स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, यथा हि बधिरादीना - मुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह सम्बन्धकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नाऽस्ति, तथेहापीति भावः । अत्रोत्तरमाह-यस्य ज्ञानस्याऽन्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तद् ज्ञानं दृष्टम्, यथाऽर्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम् । जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवाऽर्थवग्रहज्ञानम्, तस्माद् व्यञ्जनावग्रहो ज्ञानम् ।" - विशेषा० बृ० गा० १९५ ।
‘“तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नाऽनुभूयते, तथापि ज्ञानकारणत्वादसौ ज्ञानम्,
इत्येवं