________________
सटीकजैनतर्कभाषायां
दितुल्याव्यक्तज्ञानानुमानाद् वा, एकतेजोऽवयववत् तस्य तनुत्वेनाऽनुपलक्षणात् । अन्ते = इन्द्रियार्थोभयसम्बन्धानन्तरं, तत्काले = इन्द्रियार्थसम्बन्धकाले । बधिरादीनां तु श्रोत्रशब्दादिसम्बन्धानन्तरमर्थावग्रहरूपज्ञानस्याऽदर्शनेन न तत्कालेऽव्यक्तज्ञानकल्पनमित्याशयः ।
३६
नन्वव्यक्तज्ञानमन्यत्र न क्वापि दृश्यते इति प्रकृतेऽपि तादृशज्ञानकल्पनाऽदृष्टचरी न भद्रेत्यत आह- चेष्टेति । सुप्तस्य चेष्टाविशेषं दृष्ट्वा तन्निकटस्थः तदीयं स्वप्नमनुमिनोति, सुप्तश्च तदानीं जायमानमपि स्वप्नज्ञानमव्यक्तत्वाद् नाऽवधारयति, सुप्तोत्थितः पुनः तच्चेष्टानुमिततदीयज्ञानकेन पुंसा तथा प्रतिबोध्यमानः कथयत्यपि 'किञ्चित् किञ्चिदनुभवन् तदानीमहमासम्, न तु तद् ज्ञानं व्यक्तमतः किं मया तदानीं दृष्टमिति न स्मरामी 'ति । एवं चाऽव्यक्तमपि यथा तद् ज्ञानं तथेदमपि व्यञ्जनावग्रहपदवाच्यमिन्द्रियार्थसन्निकर्षकाले समस्तीति ।
अत्र - यज्ज्ञेयवस्तूपादानतो यदनन्तरं ज्ञानमुपजायते तद् ज्ञानम्, यथाऽर्थावग्रहज्ञेयवस्तूपादानतोऽर्थावग्रहानन्तरमीहाज्ञानं प्रादुर्भवतीत्यर्थावग्रहो ज्ञानम्, तथा व्यञ्जनावग्रहज्ञेयवस्तूपादानतो व्यञ्जनावग्रहानन्तरं भवत्यर्थावग्रह इति व्यञ्जनावग्रहो ज्ञानमित्यनुमानप्रयोगः ।
ननु प्रकाशस्वभावे ज्ञानेऽव्यक्तता नोत्पद्यते, न हि प्रकाशस्वभावेऽव्यक्तता क्वचिदपि
व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योक्तम् । साम्प्रतं ज्ञानाभावोऽपि तत्राऽसिद्ध एवेति दर्शयन्नाह"'तत्कालेऽपि '-' तस्य व्यञ्जनसम्बन्धस्य कालेऽपि तत्राऽनुपहतेन्द्रियसम्बन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलं एकतेजोऽवयवप्रकाशवत् तनु - अतीवाऽल्पमिति, अतोऽव्यक्तं स्वसंवेदनेनाऽपि न व्यज्यते । बधिरादीनां पुनः स व्यञ्जनावग्रहो ज्ञानं न भवतीत्यत्राऽविप्रतिपत्तिरेव, अव्यक्तस्याऽपि च ज्ञानस्याऽभावात् ।" - विशेषा० बृ० गा० १९६ ।
"परः सासूयमाह - ननु कथं ज्ञानम्, अव्यक्तं च इत्युच्यते ?, तमः प्रकाशाद्यभिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यते इति भावः । अत्रोत्तरम् - सुप्तमत्तमूच्छितादीनां सूक्ष्मबोधवदव्यक्तं ज्ञानमुच्यते इति न दोषः । सुप्तादयः स्वयमपि तद् आत्मीयविज्ञानं नावबुध्यन्ते - न संवेदयन्ति, अतिसूक्ष्मत्वात् ।'' - विशेषा० बृ० गा० १९७ ।
"तर्हि तत् तेषामस्तीति एतत् कथं लक्ष्यते ?, इत्याह- सुप्तादयोऽपि हि स्वप्नायमानाद्यवस्थायां केचित् किमपि भाषमाणा दृश्यन्ते, शब्दिताश्चौघतो वाचं प्रयच्छन्ति, सङ्कोचविकोचाऽङ्गभङ्ग-जृम्भित-कूजित - कण्डूयनादिचेष्टाश्च कुर्वन्ति, न च तास्ते तदा वेदयन्ते, नापि च प्रबुद्धाः स्मरन्ति । तर्हि कथं तच्चेष्टाभ्यस्तेषां ज्ञानमस्ति इति लक्ष्यते ? यस्मात् कारणात् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किन्तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् ।'- विशेषा० बृ० गा० १९८ ।
1