Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 212
________________ सप्तभङ्गी १८१ परिपूर्णार्थप्रापकत्वमेवेति वास्तविकप्रामाण्यमेवेति साम्प्रतम्-काकतालीयन्यायेन परिपूर्णार्थप्राप्तावपि तस्य परिपूर्णार्थप्रापकत्वाभावात् । नहि वाक्यं पुरुषं हस्ते गृहीत्वाऽर्थं प्रापयति, किन्तु ज्ञानजननाद् अर्थं तूपदर्शयत् प्रवर्तकत्वतोऽर्थप्रापकं भवति । लौकिकवाक्यं तु अपरिपूर्णमेवाऽर्थं ज्ञापयतीत्यपरिपूर्णार्थप्रापकत्वमेव तस्य । अर्थस्त्वनन्तधर्मात्मको नैकधर्मवानेव लभ्य इत्यतोऽर्थबलात् परिपूर्णार्थलाभो, न तु लौकिकवाक्यप्रभवज्ञानादिति हृदयम् । ननु वयं सप्तभङ्गीमेव नाऽवगच्छामः, कथमागमप्रमाणस्य तदनुसारित्वं जानीम इत्याशयेन पृच्छति केयं सप्तभङ्गीति चेदुच्यते-एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशाद् अविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी। इयम्-आगमप्रमाणानुगम्यतयाऽनन्तरम् । एकत्रेत्यादि लक्षणम्, सप्तभङ्गीति लक्ष्यम् । लक्षणगमनं त्वेवं-घटरूपे एकस्मिन् धर्मिण्यनन्तधर्मात्मके एकैकधर्मस्य अस्तित्वादिप्रत्येकधर्मस्य, यः पर्यनुयोगः-प्रश्न: 'घटः किमस्ती'त्यादिस्वरूपः, तद्वशाद्-उत्तराहे प्रश्ने सति तदुत्तरमवश्यमेव देयमिति प्रश्नोत्तरयोः पूर्वापरभावनियमविशेषलक्षणाङ्गाङ्गिभावबलात् । अविरोधेन-स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वम्, परद्रव्यक्षेत्रकालभावापेक्षया नास्तित्वमित्येवं विरोधपरिहारेण, अवच्छेदकभेदेनेति यावत् । व्यस्तयोः अन्योन्यासङ्घटितयोः, पृथग्भूतयोरिति यावत्, समस्तयोश्च-अन्योन्यसङ्घटितमूर्तिकयोश्च, विशेषणविशेष्यभावेनैकविशिष्टधर्मरूपतां प्राप्तयोरिति यावत् । विधिनिषेधयो:=भावाभावयोरस्तित्वनास्तित्वयोः, कल्पनया अवमर्शेन, स्यात्काराङ्कितः स्यादित्येवंस्वरूपपदघटितः, सप्तधा-सप्तप्रकारः, वाक्यप्रयोगः वाक्याभिलापः, सप्तभङ्गी-सप्तभङ्गसमाहारः । एवकाराङ्कितत्वमपि ज्ञेयम् । तथा च १. स्यादस्त्येव घटः २. स्यान्नास्त्येव घटः ३. स्यादस्त्येव स्यान्नास्त्येव च घटः ४. स्यादवक्तव्य एव घटः ५. स्यादस्त्येव स्यादवक्तव्य एव च घटः ६. स्यान्नास्त्येव स्यादवक्तव्य एव च घटः ७. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः-इति सप्तभङ्गसमुदायात्मकमहावाक्यस्वरूपा सप्तभङ्गीत्यर्थः । कथं सप्तभङ्ग्येव भवति, नाऽष्टभङ्गीनवभङ्ग्यादिकमित्यपेक्षायामाह इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोस्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते । वस्तुनि अनन्तधर्मात्मके घटादिस्वरूपैकैकवस्तुनि, प्रतिपर्यायम् अस्तित्वाद्येकैक

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342