Book Title: Gyanpanchami Katha
Author(s): Maheshwarsuri, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
॥ सिंधीजैनग्रन्थमालासम्पादकप्रशस्तिः ॥
ल
.
न.
स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तन्त्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभू राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यन परमारकुलाग्रणीः ॥ मुञ्ज-भोजमुखा भूपा जाता यस्मिन् महाकुले। किं वपते कुलीनस्वं नत्कुलजातजन्मनः॥ पत्री राजकुमारीति नम्याभूद् गुणसंहिता । चातुय-रूए सावानुवाक्-सौजन्य भूषिता क्षत्रियाणीप्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यो दृष्दै जनो मेने हाजन्यकु जा चियम् ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यशाम जननीकृतम् ॥ श्रीदेवीहंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौभाग्यात् तच्छिशोर्खाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यहच्छया विनिर्गतः ॥ ११
तथा चभ्रान्स्वा नेकेषु देशेषु सेविस्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्वगचेषिणा ॥ अघीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रन-नूतनकालिकाः॥ येन प्रकाशिता नैके प्रथा विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः॥ स बहुभिः सुचिद्वद्भिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्य तां विश्रुतिं ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीय शिक्षणालयः । विद्यापीठ इति ख्यात्या प्रतिष्ठितो यदाऽभवत् ॥ आचार्यत्वेन तत्रोच्चैनियुक्तः स महात्मना । रस-मुंनि-निधीन्द्वब्दे पुरातत्वाख्य मन्दि रे॥ वर्षाणामष्टकं यावत् सम्भूष्य तत् पदं ततः । गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् ॥ तत आगत्य सल्लमो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वराज्यपर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थित: शान्ति नि के तने । विश्ववन्धकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघीपदयुतं जैन ज्ञान पीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ।। श्रीबहादुरसिंहेन दानवीरेण धीमता। स्मृत्यर्थ निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसज्ज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाकायम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥ भथैवं विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थिप्रवृत्तिषु प्रयस्यतः॥ वाण-रने-नेवेन्द्वन्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मिती । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता । भारतीय पदोपेत विद्या भवन सब्जया॥ माहुतः सहकार्यार्थ स मुनिस्तेन सुहृदा । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् ॥ तजवनेऽन्यदा तस्य सेवाऽधिका झपेक्षिता । स्वीकृता ननभावेन साऽप्याचार्यपदाश्रिता॥ नन्द-नियत-चन्द्राब्दे वैक्रमे विहिता पुनः । एतदृग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । भा विद्या भवनायेयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना॥ दैवादल्पे गते काले सिंघीवर्यो दिवंगतः। यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थं यनशीलैस्तदात्मजः । राजेन्द्रसिंहमुख्यश्च सस्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नान्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो बर्खलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्ध्यर्थ पितृवत् तस्य कांक्षितम् । श्रीसिंघीबन्धुभिः सर्व तगिराऽनुविधीयते ।। विद्वजनकृतालादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिन विजय भारती॥
rr
o r
0 0 0 0 0
mm MM
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 162