Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 555
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [इका.] श्राइकल्पः १०३७ "निरूप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः । ये समानाइति द्वाभ्यामाद्यन्तु विभजेत् त्रिधा । एषएव विधिः पूर्वमर्थ्यपात्रचतुष्टये" । इति । तत्र विभजते-विभागपूर्वकं मिश्रणमर्थः । कथं ज्ञायते ?। यदयं विभजेदित्यभिधाय तमेव विधिमर्ध्वपात्रेष्वतिदिशति, ततः प्रतिपद्यामहे, विभागपूर्वकमिश्रणं तस्यार्थः, इति । न हि विभागमात्रं करणीयं न मिश्रणमिति शक्यं वतुम् । ततप्रयोगविषयवेदमित्यनुदाहरणम्। एवममावपि विधा विभागमाइ न चतुर्धा । यत् पुनर्ब्रह्मपुराणवचनम्, "चतुर्थ्यश्चार्थपात्रेभ्यएक वामेन पाणिना। गृहीत्वा दक्षिणेनैव पाणिना मतिलोदकम् । संम्जतु त्वा पृथिवी ये समानाइति स्मरन् । प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् । ततः पितामहादिभ्यस्तनमन्त्रैश्च पृथक् पृथक् । ये समानाइति द्वाम्यां तज्जलन्तु समर्पयेत् । अर्यन्तेनैव विधिना प्रेतपात्राच पूर्ववत् । तेभ्यश्चार्थं निवेद्यैव पश्चाच्च स्वयमाचमेत्” । इति। तदपि तदुक्क्रप्रयोगविषयम्। न हि 'संजतु त्वा पृथिवीइत्ययमपि मन्त्रोऽस्माकं भवति। तस्मात् नैतदस्मत्प्रयोगविषयमित्यतिरोहितमेतत्। केचित् पुनः स्वशास्त्रमात्रात् कर्मक्रम निर्णतुमशाक्नुवन्तोऽर्द्धजरतीयकुशलाः प्रयोगान्तरविषयस्य वचनस्यैकमंशमुपादत्ते, परञ्चांशं शाख्यन्तरीयं वदन्ति । तदश्रद्धेयम् ॥ १६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606