Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७ का.]
धर्माजः ॥२१॥ धर्मशास्त्राध्यायी धर्मवेत्ता वा। “धर्मद्रोणपाठकः,” इति पाठे, 'मनुवशिष्ठयाज्ञवल्करगोतमशास्त्राणि धर्मद्रोणशब्देनोच्यन्ते, तेषां मध्ये एकस्यापि पाठकः' इति महायशाः ॥२१॥
ब्राह्मोढ़ापुत्रश्च ॥ २२॥ ब्राह्मण विवाहेन या विवाहिता स्त्री, तस्याः पुत्रः। च शब्दात् बाहादेयाप्रदात्रादयोभूयांमः समुच्चीयन्ते । तथा च मात्स्ये पुराणे।
"ब्रह्मदेयाऽऽत्मसन्तानो ब्रह्मदेयाप्रदायकः ।
ब्रह्मदेयापतिश्चैव ब्राह्मणः पतिपावनः" । इति । ते खल्वमी बहुलं तन्त्रान्तरेवभिहितास्ततएवोपलब्धव्याः ॥२२॥
इति पंक्तिपावनाः ॥ २३॥ इत्येते मन्त्राध्यायिप्रभृतयो ब्राह्मणाः पतिपावनाः ‘पतिपावनपावनाः' इति केचित् पठन्ति ॥ २३॥ कुतः पुनरमीषां पतिपावनत्वम् ? श्रासहस्रात् पंक्तिं पुनातीति वचनादासहस्रात
पंक्तिं पुनातोति वचनात् ॥ २४ ॥ एजुरक्षरार्थः। द्विवचनमादरार्थं प्रकरणसमाप्यर्थञ्च । “वागीश्वरोयाज्ञिकासहस्त्रात् पति पुनातीति वचनादासहस्रात् पति पुनातीति वचनात्" इति केचित् पठन्ति ॥ २४ ॥
इति महामहोपाध्यायराधाकान्त सिद्धान्त वागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारभट्टाचार्य्यस्य कृतौ श्राद्धकल्पभाव्ये सप्तमी काण्डिका समाप्ता॥
For Private and Personal Use Only

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606