Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७ का.]
श्राद्धकल्पः ।
"गायत्रीमात्रमारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयो” । इतिगायत्रीव्रतमात्र सहप्रवचनापरनामधेयं येन चीण सचैव मुच्यते॥१४॥
चिणाचिकेतः॥१५॥ चिणचितोऽध्वयंशाखायां प्रसिद्धः। एतद्वतमपि, तद्योगात् पुरुषोऽपि त्रिणचिकेतः ॥ १५॥
त्रिमधुः ॥ १६ ॥ त्रिमधु अध्वर्युवेदभागस्तद्वतच्च। तद्योगात् पुरुषोऽपि त्रिमधुः ॥१६॥
चिसुपर्णः ॥ १७॥ सुपर्णमन्त्रास्तैत्तिरीयके प्रसिद्धवाः। बड़वां वेदभागश्चैवमुच्यते । तद्प्रतञ्च । तद्योगात् पुरुषोऽपि ॥ १७॥
पञ्चाग्निः॥१८॥ पञ्च-पवनपावनदक्षिणगार्हपत्याहवनीयाश्रमयोयस्य, श्रमीपञ्चाग्निः। तथा च हारीतः ।
"पवनः पावनस्त्रेता यस्य पञ्चामयोग्टहे।
सायं प्रातः प्रदीप्यन्ते सविप्रः पत्रिपावनः" । इति। केचिदेतत्सूत्रम,-'त्रिणाचिकेतः' इत्यतः पूर्वं पठन्ति ॥१८॥
स्नातकः ॥१९॥ विद्यास्नातकोत्तानातकोविद्याव्रतस्नातकश्चेति त्रिप्रक्रारोग्टह्यसूत्रोक्तः ॥ ॥ १६ ॥
मन्त्रब्राह्मणवित्॥ २० ॥ मन्त्रब्राह्मणात्मकसमग्रवेदवेत्ता। केचिदेतत् सूत्रदयं न पठन्ति ॥२०॥
For Private and Personal Use Only

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606