Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 591
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८ का.] श्राद्धकल्पः। १०७३ इति पनत्यादिविनिर्दिष्टान् सवान् कामान् समन्नते, इत्याह । तदस्य सर्वशब्दस्य प्रकृतवाचितया एकैकतिथिफलस्यैव च कामना विषयत्वेन प्रकृततया तस्यैव दर्थेऽपि फलवं योगसिद्धिन्यायात् । एवमेके । तत्र, “एकैकस्मै वा कामायान्ये यज्ञक्रतवाहियन्ते, सर्वेभ्योदर्शपौर्णमासौ” इति श्रवणेन एकैकफलस्यैव विशेषतः प्रकृतत्वेनोपस्थितत्वादस्तु तथा, प्रकृते तु तथाविधवचनाभावात् “पक्षत्यादि विनिर्दिष्टान्” इति वचनाच सकलतिथिफलानां विनाऽपि प्रयोगभेदं दर्शश्राद्धफलत्वम्। एवमपरे। इतिशब्दः प्रकरणसमाप्तिज्ञापनार्थः। सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति ॥ १७ ॥ अत्रैव शिवम् । शाण्डिल्यनाम्नाविमलेऽन्ववार मुनेरनूचानवरोमुनीनाम् । अनूनसत्वोविनयप्रधानः शाण्डिल्यवद्भनिनयप्रवीणः॥ अभूत् दिजोभूतदयः स राधाकान्तो नितान्तश्रुतिमार्गनिष्ठः । सिद्धान्तवागीशइति प्रसिद्धियं शिश्रिये तत्त्वतएव धीरम् ॥ केनापि कस्मिन्नपि वा कथञ्चित् प्रवर्त्तिते विश्वपतेः प्रसङ्ग ! 24 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606