Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 572
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५४ श्राद्धकल्पः। [४ का.] नास्तिक्यभावमाश्रित्य कर्मलोपव्यवस्थिताः । न तत्र वीरा जायन्ते नारोगा न शतायुषः । न च श्रेयोऽधिगच्छन्ति यत्र श्राद्धं विवर्जितम् । न मन्ति पितरश्चेति कृत्वा मनसि योनरः । श्राद्धं न कुरुते तत्र तस्य रक्तं पिवन्ति ते। कर्मलोपात् समूढात्मा नरके पच्यते चिरम् । लोकगही भवेत्तस्य नास्तिक्यपथसंश्रयात्। तस्मादिधेरवष्टम्भात् कर्त्तव्यन्वौर्द्धदेहिकम् । प्रेतानामुपकारार्थमात्मनोऽभ्युदयाय च" । इति । एवं वाश्रद्धा आकाङ्क्षेत्यनान्तरम्। यदैव श्राद्धं कर्तुमाकासोदेति, तदेव श्राद्धं कुर्वीत । तथा च याज्ञवल्करः । "अमावस्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । ट्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः । व्यतीपातोगजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः”। इति ॥ ११॥ शाकेनापि नापरपक्षमतिकामेत् ॥ १२ ॥ शाकेनापि श्राद्धं कुर्बोत। अपिकारात् जघन्योऽयं कल्पः । तदेवमपि कुर्वीत, न पुनरपरपतं कृष्णपक्षमतिकामेत् ॥ १२ ॥ कुतएतत् ?। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606