________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५४
श्राद्धकल्पः।
[४ का.]
नास्तिक्यभावमाश्रित्य कर्मलोपव्यवस्थिताः । न तत्र वीरा जायन्ते नारोगा न शतायुषः । न च श्रेयोऽधिगच्छन्ति यत्र श्राद्धं विवर्जितम् । न मन्ति पितरश्चेति कृत्वा मनसि योनरः । श्राद्धं न कुरुते तत्र तस्य रक्तं पिवन्ति ते। कर्मलोपात् समूढात्मा नरके पच्यते चिरम् । लोकगही भवेत्तस्य नास्तिक्यपथसंश्रयात्। तस्मादिधेरवष्टम्भात् कर्त्तव्यन्वौर्द्धदेहिकम् ।
प्रेतानामुपकारार्थमात्मनोऽभ्युदयाय च" । इति । एवं वाश्रद्धा आकाङ्क्षेत्यनान्तरम्। यदैव श्राद्धं कर्तुमाकासोदेति, तदेव श्राद्धं कुर्वीत । तथा च याज्ञवल्करः ।
"अमावस्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । ट्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः । व्यतीपातोगजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः”। इति ॥ ११॥
शाकेनापि नापरपक्षमतिकामेत् ॥ १२ ॥ शाकेनापि श्राद्धं कुर्बोत। अपिकारात् जघन्योऽयं कल्पः । तदेवमपि कुर्वीत, न पुनरपरपतं कृष्णपक्षमतिकामेत् ॥ १२ ॥ कुतएतत् ?।
For Private and Personal Use Only