Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 570
________________ Shri Mahavir Jain Aradhana Kendra १०५२ www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir स्वाहाकारवषट्कारनमस्कारादिवैौकसाम् । इति च्छन्दोगपरिशिष्टएव देवे खाहाकारस्योपदेशान्नित्यवत्तन्निषेधानुपपत्तिः । तस्मात् उक्तयुक्तः स्वाहाशब्दएव प्रयोक्तव्योभवति । उभयमपि खल्वेवमनुग्रहीष्यते । तेन, 'येचात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वाहा' - इति वक्तव्यम् । एवं 'पृक्तः स्वधया' – इत्यत्र, 'पृक्तः स्वाहया' - इति, 'स्वधास्य' - इत्यच, 'स्वाहास्य' - इति चेोहनीयम् । “स्वधयेति पदस्थाने पुड्याशब्दं वदेदिह ” । इति वचकारिका तु तन्माचपरा । तेषामेव गृह्यपरिशिष्टे 'पृक्तः पुया' - इति पठितत्वात् । तदत्र, ब्राह्मणानामेव युग्मत्वोपदेशात् अर्घ्यपिण्डादीनां न युग्मत्वम् । प्रकृतैौ ब्राह्मणबहुत्वेप्येकस्यार्थस्य दर्शनात् । यत्तु " एकं नाम्ना परं तृष्णों दद्यात् पिण्डान् पृथक् पृथक्” । इति चतुर्विंशतिमतवचनम् । तदस्मत्प्रयोगव्यतिरिक्तविषयम् । नचेदेवम्, - " तिस्रः पूज्याः पितुः पत्ते तिखेोमातामहे तथा । इत्येतामातरः प्रोक्ताः पितृमातृस्वसाऽष्टमी । [ 8 FT.] ब्राह्मण्याद्यास्तथासप्त दुर्गा क्षेत्रगणाधिपान्” । इति तदुक्तमातरोप्यस्माकं भवेयुः । न त्वेवमिय्यते । श्रस्माकन्तु — "गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरोलोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिकाोता वृद्धा पूज्याश्चतुर्दश” । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606