________________
Shri Mahavir Jain Aradhana Kendra
१०५२
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वाहाकारवषट्कारनमस्कारादिवैौकसाम् ।
इति च्छन्दोगपरिशिष्टएव देवे खाहाकारस्योपदेशान्नित्यवत्तन्निषेधानुपपत्तिः । तस्मात् उक्तयुक्तः स्वाहाशब्दएव प्रयोक्तव्योभवति । उभयमपि खल्वेवमनुग्रहीष्यते । तेन, 'येचात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वाहा' - इति वक्तव्यम् । एवं 'पृक्तः स्वधया' – इत्यत्र, 'पृक्तः स्वाहया' - इति, 'स्वधास्य' - इत्यच, 'स्वाहास्य' - इति चेोहनीयम् । “स्वधयेति पदस्थाने पुड्याशब्दं वदेदिह ” ।
इति वचकारिका तु तन्माचपरा । तेषामेव गृह्यपरिशिष्टे 'पृक्तः पुया' - इति पठितत्वात् ।
तदत्र, ब्राह्मणानामेव युग्मत्वोपदेशात् अर्घ्यपिण्डादीनां न युग्मत्वम् । प्रकृतैौ ब्राह्मणबहुत्वेप्येकस्यार्थस्य दर्शनात् । यत्तु
" एकं नाम्ना परं तृष्णों दद्यात् पिण्डान् पृथक् पृथक्” । इति चतुर्विंशतिमतवचनम् । तदस्मत्प्रयोगव्यतिरिक्तविषयम् । नचेदेवम्, -
" तिस्रः पूज्याः पितुः पत्ते तिखेोमातामहे तथा । इत्येतामातरः प्रोक्ताः पितृमातृस्वसाऽष्टमी ।
[ 8 FT.]
ब्राह्मण्याद्यास्तथासप्त दुर्गा क्षेत्रगणाधिपान्” ।
इति तदुक्तमातरोप्यस्माकं भवेयुः । न त्वेवमिय्यते । श्रस्माकन्तु — "गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरोलोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिकाोता वृद्धा पूज्याश्चतुर्दश” ।
For Private and Personal Use Only