Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५०
श्राद्धकल्पः।
[४ का.]
इति चोत्तरसूत्रे प्रीयन्तामित्यस्य साकाङ्क्षतया तत्र "नान्दीमुखाः पितरः” इत्ययमेव परिपूरणसमर्थावाक्यशेषोभवति । तस्मात् , तस्थानुषङ्गः कर्त्तव्यः । तथाचोक्तम् । “अनुषङ्गोवाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्” इति । तेन, 'नान्दोमुखाः पितरः प्रीयन्ताम्'इति पूर्वोतएवमन्त्रोभवति ॥ ८ ॥
दैवे वाचयित्वा नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्योमाताहेभ्यः प्रमातामहेभ्यो प्रमातामहेभ्यश्च स्वाहोच्यताम् ॥१॥
ऋजुरक्षरार्थः । दैवे वाचयित्वा, इत्यत्र, किम् ?–इत्याकाङ्क्षायां पूर्वोकमनुषञ्जनीयम्। तेन, इदानीं नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयेत् । प्रीयतामित्युत्तरम्। अथ, 'स्वाहां वाचयिव्येइति पृच्छति। वाच्यतामित्युक्त, नान्दीमुखेभ्यः पिटभ्यः खाहोयतामित्यादिकं वदेत्। ते च, अस्तु स्वाहा, दूति प्रत्येकं ब्रूयुः ।
स खल्वयं ग्रन्थएवमेव महायशःप्रभृतिभिः पठितोव्याख्यातश्च । अन्ये पुनरन्यथेमं ग्रन्थं पठन्ति, नान्दीमुखाः पितरः, इत्यादिम्। "नान्दीमुखाः पितरः, प्रीयन्तामिति दैवे वाचयित्वा, नान्दीमुखेभ्यः पिटभ्यः पितामहेम्यः प्रपितामहेभ्योमातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्ताम्" इति । तेषां नान्दीमुखेभ्यः पिढभ्यः प्रीयन्तामित्यादिवत्, प्रीयन्तां वाचयिव्ये, दूति, अस्तु प्रीयन्ताम्,इति च, न किमपि समवैति, इति द्रष्टव्यम्। रघुनन्दनस्तु प्रीयन्तां वाचयिव्ये, दूति, नान्दीमुखेभ्यः पित्भ्यः प्रीयन्ताम्-इति चैवमा
For Private and Personal Use Only

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606