SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५० श्राद्धकल्पः। [४ का.] इति चोत्तरसूत्रे प्रीयन्तामित्यस्य साकाङ्क्षतया तत्र "नान्दीमुखाः पितरः” इत्ययमेव परिपूरणसमर्थावाक्यशेषोभवति । तस्मात् , तस्थानुषङ्गः कर्त्तव्यः । तथाचोक्तम् । “अनुषङ्गोवाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्” इति । तेन, 'नान्दोमुखाः पितरः प्रीयन्ताम्'इति पूर्वोतएवमन्त्रोभवति ॥ ८ ॥ दैवे वाचयित्वा नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्योमाताहेभ्यः प्रमातामहेभ्यो प्रमातामहेभ्यश्च स्वाहोच्यताम् ॥१॥ ऋजुरक्षरार्थः । दैवे वाचयित्वा, इत्यत्र, किम् ?–इत्याकाङ्क्षायां पूर्वोकमनुषञ्जनीयम्। तेन, इदानीं नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयेत् । प्रीयतामित्युत्तरम्। अथ, 'स्वाहां वाचयिव्येइति पृच्छति। वाच्यतामित्युक्त, नान्दीमुखेभ्यः पिटभ्यः खाहोयतामित्यादिकं वदेत्। ते च, अस्तु स्वाहा, दूति प्रत्येकं ब्रूयुः । स खल्वयं ग्रन्थएवमेव महायशःप्रभृतिभिः पठितोव्याख्यातश्च । अन्ये पुनरन्यथेमं ग्रन्थं पठन्ति, नान्दीमुखाः पितरः, इत्यादिम्। "नान्दीमुखाः पितरः, प्रीयन्तामिति दैवे वाचयित्वा, नान्दीमुखेभ्यः पिटभ्यः पितामहेम्यः प्रपितामहेभ्योमातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्ताम्" इति । तेषां नान्दीमुखेभ्यः पिढभ्यः प्रीयन्तामित्यादिवत्, प्रीयन्तां वाचयिव्ये, दूति, अस्तु प्रीयन्ताम्,इति च, न किमपि समवैति, इति द्रष्टव्यम्। रघुनन्दनस्तु प्रीयन्तां वाचयिव्ये, दूति, नान्दीमुखेभ्यः पित्भ्यः प्रीयन्ताम्-इति चैवमा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy